________________
अष्टमाध्यायस्य प्रथमः पादः ॥
अवर्णो यश्रुतिः ॥ ८।१।१८० ॥ क-ग-च-जेत्यादिना लुकि सति शेषोऽवर्णोऽवर्णात् परो लघुप्रयत्नतरयकार श्रुतिर्भवति ॥
तित्थयरो । सयढं । नयरं । मयङ्को । कयग्गहो । कायमणी । रययं । पयावई । रसायलं । पायालं । मयणो । गया। नयणं । दयालू । लायण्णं ॥
अवर्ण इति किम् ? सउणो । पउणो । पउरं । राईवं । 'निहओ । निनओ । वाऊ । कई ॥ अवर्णादित्येव- लोअस्स । देअरो ॥ क्वचिद् भवति - पियइ ॥ [अवर्णो यश्रुतिः] अवर्ण प्रथमा सि । यश्रुति प्रथमा सि ।
[तित्थयरो] तीर्थकर । 'हस्वः संयोगे' (१।८४) ती० → ति० । 'सर्वत्र०' (२७९) लुक् । 'अनादौ०' (२।८९) थस्य द्वित्वम् । 'द्वितीय-तुर्ययो०' (२।९०) पूर्वथस्य तः । 'क-ग-च-ज०' (१३१७७) क्लुक् । अनेन अ० → य० । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१११४) अलुक् तित्थयरो ।
[सयढं ] शकट । 'श-षोः सः' (१।२६०) श० → स० । 'क-ग-च-ज०' (११७७) क्लु क् । अनेन अ० → य० । 'सटा-शकट-कैटभे ढः' (१।१९६) टस्य ढः । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१।२३) अनुस्वारः सयढं ।
[नयरं] नगर । 'क-ग-च-ज०' (१।१७७) ग्लुक् । अनेन अ० → य० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः नयरं ।
[मयङ्को ] मृगाङ्क । 'ऋतोऽत्' (१।१२६) मृ० → म० । 'हुस्वः संयोगे' (१९८४) गा० → ग० । 'क-ग-च-ज०' (१।१७७) ग्लुक् । अनेन अ० → य० । प्रथमा सि । 'अतः से?ः' (३।२) सि० → डो० → ओ० मयो ।
[कयग्गहो] कचग्रह । 'क-ग-च-ज०' (१६१७७) चलुक् । अनेन अ० → य० । 'सर्वत्र०' (२७९) लुक् । 'अनादौ०' (२१८९) गस्य द्वित्वं -ग० → ग्ग० । प्रथमा सि । 'अतः से?:' (३२) सि० → डो० → ओ० कयग्गहो ।
[कायमणी ] काचमणि । प्रथमा सि । 'क-ग-च-ज०' (१।१७७) च्लुक् । अनेन अ० → य० । 'अक्लीबे सौ' (३।१९) दीर्घः - णि० → णी० । 'अन्त्यव्यञ्जनस्य' (१।११) स्लुक् कायमणी ।
[रययं] रजत । 'क-ग-च-ज०' (१।१७७) ज्लुक्-त्लुक् च । अनेन अ० → य० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म् । 'मोऽनुस्वारः' (१९२३) अनुस्वारः रययं ।
[पयावई ] प्रजापति । 'सर्वत्र०' (२।७९) लुक् । 'क-ग-च-ज०' (१११७७) जुलुक् - त्लुक् च । अनेन आ० → या० । 'पो वः' (१२३१) प० → व० । प्रथमा सि । 'अक्लीबे सौ' (३।१९) दीर्घः - इ० → ई० । 'अन्त्य०' (१।११) स्लुक् पयावई ।
[रसायलं] रसातल । 'क-ग-च-ज०' (१।१७७) त्लुक् । अनेन अ० → य० । प्रथमा सि । 'क्लीबे०' (३२५) सि० → म्० । 'मोऽनु०' (१९२३) अनुस्वारः रसायलं । १. K. निहिओ।