________________
१००
व्युत्पत्तिदीपिकाभिधान-ढुण्ढिकया समर्थिते सिद्धहेमप्राकृतव्याकरणे ॥
→ दइ० । प्रथमा सि । 'क्लीबे०' (३।२५) सि० → म० । 'मोऽनु०' (१।२३)
[दइवं] दैव । अनेन दै० अनुस्वारः दइवं ॥१५३॥
उच्चैर्नीचैस्यअः ॥८।१।१५४ ॥
अनयोरैतो अअ इत्यादेशो भवति ॥ उच्चअं। नीचअं ॥ उच्च-नीचाभ्यां के सिद्धम्, उच्चैर्नीचैसोस्तु रूपान्तरनिवृत्त्यर्थं वचनम् ॥ [उच्चैर्नीचैस्यअः] उच्चैश्च नीचैश्च = उच्चैर्नीचैस् । सप्तमी ङि । अअ प्रथमा सि ।
[उच्चअं] उच्चस् । 'वा स्वरे मश्च' (१०२४) बाहुलकात् स्० → म्० । अनेन ऐ० → अअ० -च्चै० → च्चअ० । 'लोकात्' (१।१।३) उच्चअम् । 'मोऽनु०' (१।२३) अनुस्वारः उच्चअं ।
[नीचअं] नीचैस् । 'वा स्वरे मश्च' (११२४) बाहुलकात् स्० → म् । अनेन ऐ० → अअ० - चै० → चअ०। 'लोकात्' (१।१।३) नीचअम् । 'मोऽनु०' (१९२३) अनुस्वारः नीचअं ॥१५४||
ईद्धैर्ये ॥ ८।१।१५५ ॥ धैर्यशब्दे ऐत ईद् भवति ॥ धीरं हरइ विसाओ ॥ [ईद्धैर्ये ] ईत् प्रथमा सि । धैर्य सप्तमी ङि ।
[धीरं हरइ विसाओ] धैर्य । अनेन धै० → धी० । 'धैर्ये वा' (२०६४) र्यस्य र० । द्वितीया अम् । 'अमोऽस्य' (३५) अलुक् । 'मोऽनु०' (१९२३) अनुस्वारः धीरं । हरति- 'त्यादीनामाद्ययस्याद्यस्येचेचौ' (३।१३९) ति० → इ० हरइ। विषाद । 'श-षोः सः' (१।२६०) षा० → सा० । 'क-ग-च-ज०' (१।१७७) द्लुक् । प्रथमा सि । 'अतः से?:' (३।२) सि० → डो० → ओ० । 'डित्यन्त्य०' (२।१।११४) अलुक् विसाओ ॥१५५॥
ओतोऽद्वा-ऽन्योन्य-प्रकोष्ठा-ऽऽतोद्य-शिरोवेदना-मनोहर-सरोरुहे क्तोश्च वः ॥ ८।१।१५६ ॥ एषु ओतोऽत्त्वं वा भवति, तत्संनियोगे च यथादर्शनं ककार-तकारयोर्वादेशः ॥ अन्नन्नं अन्नुन्नं । पवट्ठो पउट्ठो । आवजं आउज्जं । सिरविअणा 'सिरोवेअणा । मणहरं मणोहरं । सररुहं सरोरुहं ॥
[ओतोऽद्वा ] ओत् षष्ठी ङस् । अत् प्रथमा सि । वा प्रथमा सि । _ [अन्योन्यप्रकोष्ठाऽऽतोद्यशिरोवेदनामनोहरसरोरुहे] अन्योन्यं च प्रकोष्ठश्च आतोद्यं च शिरोवेदना च मनोहरं च सरोरुहं च = अन्योन्यप्रकोष्ठाऽऽतोद्यशिरोवेदनामनोहरसरोरुहम्, तस्मिन् = अन्योन्यप्रकोष्ठाऽऽतोद्यशिरोवेदनामनोहरसरोरुहे। सप्तमी ङि ।
[क्तोश्च वः] क्त षष्ठी ओस् । च प्रथमा सि । व प्रथमा सि ।
१. धीरं हरइ विसाओ विणअं जोव्वणमओ अणंगो लज्जं । एक्कन्तगहिअवक्खो कि सीअउ जं ठवेइ वअपरिणामो ॥
[से० ब० - ४।२३ । स० क० - ४१७४] धैर्यं हरति विषादो विनयं यौवनमदोऽनङ्गो लज्जाम् । एकान्तगृहीतपक्षः किं शिष्यतां यत् स्थापयति वय:परिणामः ।। २. H. J. L. M. यथासम्भवं । ३. G. H. I. J. L. M. पा० म० - सिरोविअणा ।