________________
श्रीशजयगिरिवरगता लेखाः मित गणधराणां श्रीपुंडरीकादिगौतमान्तानां पादुकास्थानमजातपूर्वमचीकरत् स्वपुत्र हरराज, मेघराज सहितः समेधमान पुण्योदयाय ॥ प्रतिष्ठितं च श्रीबहत्खरतरगच्छाधिराज-श्रीजिवराजसू रिसू रिराजैः पुज्यमानं चिर नंदतात् ॥
ले० २५ देरीनं० ४७५ ॥ संवत् १६८३ वर्षे । पातिसाहजिहांगीर श्रीसलेमसाह-भूमंडलाखंडलविजयराज्ये । श्रीचक्रेश्वरी नमः ॥ ॐ ॥ महोपाध्याय श्री ५ श्रीहेममूर्तिगणिसद्गुरुभ्यो नमः ॥ श्री ॥
॥ ॐ नमः ॥ स्वस्त श्रीः शिवशंकरोऽपि गणमान् सर्वज्ञः शत्रुजयः। शवः शंभुरधीश्वरञ्च भगवान् गौरो वृषांकोमृतः ॥ गंगोमापतिरस्तकामविकृतिः सिद्धैः कृताऽतिस्तुति । रुद्रो यो न परंश्रिये स जिनपः श्रीनाभिभूरस्तु मे ॥ १ ॥ उद्यच्छीरजडः कलंकरहितः संतापदोषाऽपहः । सोम्यः प्राप्त सदोदयाऽमितकलः सुश्रीमुगांकोऽव्ययः ॥ गौरानोमृतसूरपास्तकलुषोजैवातृकः प्राणिनां । चंद्रो कोपि जयत्यहो जिनपतिः श्रीवैश्वसेनिर्महान् ॥ २ ॥ त्यकत्वा राजीमतीं यः स्वनिहित हृदयानेकपत्नीः स्वरुपां । सिद्धिस्त्रीं भू रिरकतामपि बहु चंक्रमेऽनेकपत्नीमपीशः ॥ लोके ख्यातस्तथापि स्फुरदतिशयवान् ब्रह्मचारीति नाम्ना । स श्रीनेमिजिनेंद्रो दिशतु शिवसुखं सास्वतां योगिनाथः ॥ ३ ॥ चंचच्छारदचंद्रचारुवदनश्रयो विनिर्यद्वयः पियूषौघनिषेकतो विषधरेणापि प्रपेदे द्रुतम् ॥ देवत्वं सुकृतकलभ्यमतुलं यस्यानुपानिधेः । स श्रीपार्श्वजिनेशितास्तु सततं विघ्नच्छिदे सास्वताम् ॥ ४ ॥ यस्य श्रीवरशासनं क्षितितले मार्तडबिंबायते । यद्वाकयं भवसिन्धूतारणविद्यौ पोतायते देहिनाम् ॥ यद्ध्यानं भुवि पापपंकदलने गंगांबुधारायते । श्रीसिद्धार्थनरेद्रनंदनजिनः सोऽस्तु श्रिये सर्वदा ॥ ५ ॥
। अथ पट्टावली ॥ श्रीवर्द्धमानजिनराजपदक्रमेण, श्रीआर्यरक्षितमुनीश्वरसू रिराजाः ॥ विद्यापगाजलधयोविधिपक्षगच्छा-संस्थापका यतिवरा गुरवो बभूवुः ॥ ६ ॥ तच्चारुपट्ट-कमलाजल--राजहंसाश्चारित्रमंजुकमलाश्रवणावतंसा ॥ गच्छाधिपा बुधवरा जयसिंहसू रि--नामा न उद्यदमलोरुगुणावदाताः ॥ ७ ॥ श्रीधर्मघोषगुरवो वरकीर्तिभाजः । सूरीश्वरास्तदनु। पूज्यमहेन्द्रसिंहः ॥ आसंस्ततः सकलसू. रिशिरोवतंसाः । सिंहप्रभाभिधसुसाधुप्रसिद्धाः ॥ ८ ॥ तेभ्यः क्रमेण गुरवो जिनसिंह
(१७)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org