________________
श्रीशजय-गिरिराज-दर्शनम् त्पुत्रो, नरसिंहस्तत्सुतो जातकजज्ञे ॥ ११ ॥ तत्पुत्रस्तोलाख्यः पत्नीतस्याः(स्य) प्रभूतकूलजाता ॥ तारादेऽपरनाम्नी लीळू पुण्यप्रभापूर्णा ॥ १२॥ तत्कुक्षिसमुद्रभूताः, ष(ट् )पुत्रा (:) कल्पपादपाकाराः ।। [धर्मा ]नुष्ठानपराः श्रीव(म)न्तः श्रीकृतोऽन्योषाम् ॥ १३ ॥ प्रथमो रत्ना)ख्यसुतः सम्यक् यो द्योतकारकः कामम् ॥ श्रीचित्रकूटनगरे, प्रासादः (कारितो) येन ॥१४ ॥ तस्यास्ति कोमला कल्पवरलीव विशदा सदा ॥ भार्या रज्मरा (!) देवी पुत्र( :) श्रीरंगनामाऽसौ ॥ १५ ॥ भ्राताऽन्यः पोमाव्हः पतिभक्ता दानशीलगुणयुक्ता ॥ पद्मापाटमदेव्यौ पुत्रौ माणिक्य-हीराव्हौ ॥ १६ ॥ बंधुर्गणस्तृतीयभार्या गुणरत्नराशि विख्याता ॥ गौरा-गारवदेव्यौ पुत्रो देवाभिधो ज्ञेयः ॥ १७ ॥ तुर्यो दशरथनामा भार्या तस्यास्ति देवगुरुभक्ता ॥ देवल-[ दू ]रमदेव्यौ पुत्रः केल्हाभिधो ज्ञेयः ॥ १८ ॥ भ्रातान्यो भोजाख्यः भार्या तस्यास्ति सकलगुणयुक्ता ॥ भावल-हर्षमदेव्यौ पुत्रः श्रीमण्डनो जीयात् ॥ १९ ॥ सदासदाचारविचारचारु-चातुर्यधर्ययादिगुणैः प्रयुक्तः ॥ श्रीकर्मराजो भगिनी च तेषां जीयात्सदा सू हविनामधे( या ) ॥ २० ॥
कर्माख्य भार्या प्रथम कपूरदेवी पुनः कामलदे द्वितीया ॥ श्रीभीषजीकस्वकुलो दयाद्रिसूर्यप्रभः कामलदेविपुत्रः ॥ २१॥ श्रीतीर्थयात्राजिनबिम्बपूजा-पदप्रतिष्ठादिकधर्मधुर्याः ।। सुपात्रदानेन पवित्रगात्राः सर्वेदशाः सत्पुरुषाः प्रसिद्धाः ॥ २२ ॥ श्रीरत्नसिंहराज्ये राज्यव्यापारभारधौरेयः ॥ श्रीकर्मसिंहदक्षो मुख्यो व्यवहारिणां मध्ये ।। २३ ।। श्रीशत्रुजयमाहात्म्यं श्रुत्वा सद्गुरुसन्निधौ ।। तस्योद्धारकृते भाव: कर्मराजस्य हृद्यभूत् ॥ २४ ।। आगत्य गौर्जरे देशे विवेकेन नरायणे ॥ वसन्ति विबुधा लोकाः पुण्यश्लोका ईवाद्भूताः ॥ २५ ॥ तत्रास्ति श्रीधराधीशाः श्रीमद्बाहदरो नृपः ।। तस्य प्राप्य स्कुरन्मानं पुण्डरीके समायों ॥ २६ ॥ राज्यव्यापारपोरेयः खानश्रीमान्मझादकः ॥ तस्य गेहे महामंत्री-आख्यो नरसिंहकः ॥ २७ ॥ तस्य सन्मानमुत्प्राप्य बहुवित्तव्ययेन च ॥ उद्धारः सप्तमस्तेन चक्रे शबुजये गिरौ ॥ २८ ॥ श्रीपादलिप्तललनासरशुद्धदेशे, सद्वाद्यमंगलमनोहरगीतनृतैः । श्रीकर्मराजसुधिया जलया निकायां, चक्रे महोत्सववरः सुगुरूपदेशात् ॥ २९ ॥ चंचच्चंगमृदंगरंगरचनाभेरीनफेरीवा वीणा (वंश)विशुद्धतालविभवा साधर्मि(वात्सल्य)कम् ।। वस्त्रालंकृति(हेम)तुंगतुरगादीनां च स(द्व)र्षणमेवं विस्तरपूर्वकं गिरिवरे विवप्रतिष्ठापनम् ॥ ३० ॥ विक्रमसमयातीते तिथिमितसंवत्सरेऽश्ववसुवर्षे १५८७ ॥ शाके जगत्त्रिवाणे १४५३ वैशाखे कृष्णषष्ठयां च ॥ ३१ ।। मिलिता: सूरयः संघा मार्गणा मुनिपुगवाः ॥ वहमाने धनुलग्ने प्रतिष्ठा कारिता वरा ॥ ३२ ॥ लावण्यसमयाख्येन पंडितेन
(2)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org |