________________
श्रीशत्रुजयगिरिराजदर्शनम्
चतुर्थों भागः श्रीशत्रुजयगिरिगताः जिनमंदिरगता शिलापट्ट-प्रतिमास्थिता लेखाः ।A
B लेखनंबर १ देरीनं. १ ॥ ॐ ॥ स्वस्ति श्रीगुर्जरधरित्र्यां पातशाहश्रीमहिमूद पट्टप्रभाकरपातशाहश्रीमदाफरसाह-पट्टोद्योतकारक-पातशाह श्री श्री श्री श्री श्री बाहदरविजयराज्ये । संवत् १५८७ वर्षे राज्यव्यापारधुरंधर-खानश्रीमझादखान-व्यापारे श्रीशत्रुजयगिरौ श्रीचित्रकूटवास्तव्य-दो० करमाकृतसप्तमोद्धारसत्का प्रशस्तिलिख्यते ॥
स्वस्तिश्रीसौख्यदो जियाद् युगादिजिननायकः । केवलज्ञानविमलो विमलाचलमण्डनः ॥ १॥ श्रीमेदपाटे प्रकटप्रभावे, भावेन भव्ये भुवनप्रसिद्धे ॥ श्रीचित्रकूटो मुकुटोपमानो, विराज्यमानोऽस्ति स्मस्त लक्ष्भ्या ॥ २ ॥ सन्नन्दनो दातृसुरद्रमश्च, तुंगः सुवर्णोऽपि विहारसारः ॥ जिनेश्वरस्नात्रपवित्रभू मिः, श्रीचित्रकूटः सुरशैलतुल्यः ॥ ३ ॥ विशालसालक्षितिलोचनाभो, रम्यो नृणां लोचनचित्रकारी ॥ विचित्रकूटो गिरि चित्रकूटो, लोकस्तु यत्राखिल कूटमुक्तः ॥४॥ तत्र श्रीकुम्भराजोऽभूत्कुम्भोद्भवनिभो नृपः ॥ वैरिवर्गः समुद्रो हि येन पीतः क्षणात् क्षितौ ॥ ५ ॥ (तत्पुत्रो राजमल्लोऽभूद्राज्ञां मल्ल इवोत्करः ॥ सुतः संग्रामसिंहोऽस्य संग्रामविजयी नृपः ॥ ६ ॥ तत्पट्टभूषणमणिः, सिंहेन्द्रवत्प्रराक्रमी ॥ रत्नसिंहोऽधुना राजा, राजलक्ष्भ्या विराजते ॥ ७ ॥ दूतश्च गोपाव्हगिरौ गरिष्ठः, श्रीबप्पभट्टो प्रतिबोधितश्च ॥ श्रीआमराजोऽजनि तस्य पत्नी, काचित्बभूव व्यवहारिपुत्री ॥८॥ तत्कुक्षिजाताः किल राजकोष्ठागाराव्हगोत्रे सुकृतकपात्रे ।। श्रीओसवशे विशदे विशाले, तस्यान्वयेऽमी पुरुषाः प्रसिद्धाः ॥ ९ ॥ श्रीसरणदेवनामा तत्पुत्रो, रामदेव नामाऽभूत् ॥ लक्ष्मीसिंहः पुत्रो(स )तत्पुत्रो भुवनपालाख्यः ॥ १० ॥ श्रीभोजराजपुत्रो न......र सिंहाख्य एव तत्पुत्रः ॥ घेताकस्त
A. सं० १९९६ विक्रमीये परमतारकध्यानस्थस्वर्गत-आगमोद्धारक-आचार्यश्रीआनंदसागरसूरीश्वराणां प्रेरणया हस्तपोथिगतप्रशस्तयः प्रतिमादिस्थलेखाश्च गृहितुमुधमो मया कृतः, तदन्तरगताः श्रीशनंजयगिरिवरगता लेखा अत्र दीयंते । B नं० नंबरः ।।
श, 1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org