________________
॥ श्रीवीतरागाय नमः ॥ जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलाल-व्रतिविरचितया प्रियदर्शिन्याख्यया व्याख्यया समलङ्कृतम्उत्तराध्ययनसूत्रम्।
–xxx:०:xxx॥ अथ मङ्गलाचरणम् ॥ ( मालिनी-छन्दः)
(१) भवजलधिनिमज्जज्जीवरक्षककृत्यं,
विमलहितवचोभिर्दर्शितात्मैकमृत्यम् । सुर-नर-मुनिवृन्दैबन्धमानापिनम् , सकलगुणनिधानं वर्धमानं प्रणौमि ॥
(२) चरमजिनवरस्य प्राणिकल्याणकर्ती,
चरमसमयजाता देशना सोत्तरारव्या । भवतु भविजनानां सुप्रवेद्या सुहृद्या, इति सरलसरण्या वृत्तिरातन्यतेऽस्याः॥
(पृथ्वी-छन्दः)
सगुप्तिसमितिं समां विरतिमादधानं सदा,
क्षमावदखिलक्षम कलितमजुचारित्रकम् । सदोरमुखवस्त्रिकाविलसिताऽऽननेन्दु गुरु, प्रणौमि भववारिधिप्लवमपूर्वबोधपदम् ॥
( अनुष्टुप् छन्दः)
जैनी सरस्वतीं नत्वा, गौतमं गणनायकम् । उत्तराध्ययने वृत्ति, करोमि भियदर्शिनीम् ।
ઉત્તરાધ્યયન સૂત્ર : ૧