SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ मेवाडदेशपाक्नकतॄणां श्री श्रमणसंवीय पण्डित मुनिश्री मांगीलालजी महाराजानां शिष्यस्य हस्तिमुनेः सम्मतिपत्रम् २०१५ वर्षीय-वर्षावास-दीपावली राजकरेडा ( राजस्थान ) पुरतो जिनवाणीरसिक सज्जनानां पूज्यश्री १००८ श्री घासीलालजी महा. राजविरचित जैनागमव्याख्याऽध्ययनजन्मनो मत्स्वान्ते परिमितिमप्राप्नुवतो निर्भरानन्दस्यानुभवं प्रसन्नमनसा कतिपयैः शब्दैनिर्दिशामि। ___ अस्माकमहोभाग्येन विराजमा विधया वयसा च वृद्धः सज्जनशिरोमणिभिः पूज्यपदवीमलकुर्वद्भिः श्रीमज्जैनाचार्य घासीलालजीमहाराजैः प्रणीतया व्याख्यया समलङ्कताः जैनागमा दृष्टिगोचरीकृताः । मनोहारिणी संस्कृत टीका हिन्दीगुर्जरभाषानुवादद्वयं च बलान्मानसं समाकर्षति । पूज्यश्रीविरचितजैनागमव्याख्यानसहस्रभानुना मम जैनागमरहस्याज्ञानतमस्संहतिरपहृता, हृत्पद्यं च प्रफुल्लितं जातम् । आसीदभावो बहोः कालाज्जैनागमेषु स्थानकवासिसंप्रदायाभिमतसंस्कृतव्याख्यानस्य, परतन्त्रश्चासीदद्यावधिस्थानकवासीजैनसमुदायः। परं परमकृपालुना श्रीमताऽऽचार्यप्रवरेणाऽनवर परिश्रम्य जैनागमेषु स्वसंपदायपरिपोषिका टीका विधाय सकलोऽपि स्थानकवासिजैनसंघः स्वावलम्बीकृतः । श्रीमज्जैनाचार्यकृतेय मुपकृतिः सकलस्थानकवासिजैनहृदयेषु वज्रलेपायिता भविष्यतीति मन्ये । ___अनादिघोराज्ञानतमसिपततां जनानां त्राणोपायः केवलं जिनभाषितमेवेति सर्वविदितमेव । तत्र सर्वजनकल्याणकामनया पूज्यश्रीचरणैर्या टीका विरचिता सा सर्वेषामपि सिद्धिपदा विजयप्रदा कल्याणपदा सन्मार्गप्रदर्शिका चास्तीति मे सुदृढो विश्वासः । अतोऽहं सर्वानपि जैनबन्धून प्रोत्साहयामि, यत्ते स्वहितमभिसंधाय श्रीमत्पूज्यजैनाचार्यविरचितव्याख्यासाहाय्येन जैनागमहृदयं सम्यगवगम्य तन्निर्दिष्टमार्गेण स्व-स्वजोवनं सफलयन्तो लोकद्वयं साधयन्त्वित्यलमतिविस्तरेण ।। ___ अन्ते व शासनाधीशमभ्यर्थये-यदस्मदीयाचार्यप्रवराः शतायुषो निरामयश्च भवन्विति । इत्थं पूज्यश्री १००८ श्रीघासीलालजी महाराजविरचितजैनागमव्याख्यायां स्वसम्मतिं प्रदर्शयति श्री श्रमणसंघीय पण्डित मुनिश्री मांगीलालजी महाराजचरणरजो हस्तीमुनिः ઉત્તરાધ્યયન સૂત્ર : ૧
SR No.006369
Book TitleAgam 30 Mool 03 Uttaradhyayana Sutra Part 01 Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages855
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_uttaradhyayan
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy