SearchBrowseAboutContactDonate
Page Preview
Page 326
Loading...
Download File
Download File
Page Text
________________ २६६ श्री दशाश्रुतस्कन्धसूत्रे छाया-मासिकी खलु भिक्षुपतिमा प्रतिपन्नस्य अनगारस्य कश्चित् उपाश्रयमग्निकायेन धमेत् नो तस्य कल्पते तम् ( अग्निं ) प्रतीत्य निष्क्रमितुं वा प्रवेष्टुं वा । तत्र खलु कश्चित् बाहौ गृहीत्वाऽऽकर्षेत् नो तस्य कल्पते तमवलम्बितुं वा, प्रलम्बितुं वा कल्पते तस्य यथेयमीरितुम् ॥ सू० १३ ॥ टीका-' मासियं'--इत्यादि । मासिकी भिक्षुप्रतिमां प्रतिपन्नस्य मुनेः कश्चिजनो यदि उपाश्रयमग्निकायेन धमेत् केनापि कारणेन प्रज्वालयेत् तदा तस्य=भिक्षोः प्रतिमाप्रतिपन्नस्य तम् अग्निं प्रतीत्य अग्निभयमाश्रित्य उपाश्रयाद् निष्क्रमितुं निःसर्तुं नैव कल्पते, एवं बहिश्चेत्तदोपाश्रयान्तः प्रवेष्टुं नैव कल्पते । तत्र = उपाश्रये खलु कश्चिद् बाहौ = बाहुविषये गृहीत्वा आकर्षेत्=बहिरानयेत् चेत्तदा तस्य=भिक्षोः तं बहिराकर्षकं जनम् अवलम्बितुम्-आश्रयितुं प्रलम्बितुं नारिकेलतालफलादिवद उपश्लेष्टुं नैव कल्पते, किन्तु तस्य प्रतिमाधारिणो भिक्षोः यथेयम् ईर्यासमित्यनुसारं चतुर्हस्तात्मकयुग्यमात्रभूतलनिरीक्षणेन ईरितु = निस्सत् कल्पते ॥ सू० १३ ।। जब उपाश्रय को कोई अग्निकाय से प्रज्वलित करदे तो क्या करना चाहिये ? सो कहते हैं-'मासियं णं' इत्यादि । मासिकीभिक्षुपतिमाप्रतिपन्न मुनि के उपाश्रय को कोई अग्नि से जलादे तो उस समय प्रतिमाप्रतिपन्नभिक्षु अन्दर हो तो अग्नि के भय से बाहर न निकले । यदि बाहर हो तो भीतर न आवे । उस समय यदि कोई उसकी भुजा पकड कर उसे खींचे तो खींचने वाले को नारियल और तालफल की तरह अवलम्ब और प्रलम्ब नहीं करे, अर्थात् उसकी भुजा आदि को पकड कर न लटके, किन्तु ईसमिति के अनुसार चार हाथ के युग्यमात्र भूतल को देखता हुआ निकले ॥ सू० १३ ॥ જ્યારે ઉપાશ્રયમાં અગ્નિકાય પ્રજવલિત થાય ત્યારે શું કરવું જોઈએ? તે -मासियं णं इत्याहि. માસિકી ભિક્ષપ્રતિમાપ્રતિપન્ન મુનિના ઉપાશ્રયને અગ્નિથી કોઈ બાળી દે તે તે સમય પ્રતિમાપ્રતિપન્ન ભિક્ષુ અંદર હોય તે અગ્નિના ભયથી બહાર ન નિકળે. જે બહાર હોય તે અંદર ન આવે. તે સમયે જે કઈ તેને હાથ પકડીને તેને ખેંચે તે ખેંચવાવાળાને નારિયેલ અને તાલફલની પેઠે અવલખન તથા પ્રલમ્બન ન કરે. અર્થાત્ તેની ભુજા આદિને પકડીને લટકે નહિ, કિન્તુ ઈર્યા–સમિતિને અનુસરીને યુગ્યમાત્ર–ચાર હાથ સુધી ભૂતલને જોતાં નીકળે. (સૂ ૧૩) શ્રી દશાશ્રુત સ્કન્ધ સૂત્ર
SR No.006365
Book TitleAgam 27 Chhed 04 Dashashrutskandh Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1960
Total Pages511
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_dashashrutaskandh
File Size25 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy