________________
भाष्यम् ३० २ ० २१-२२
मैथुनाभ्याख्याने तन्निर्णयविधिः ६५ सेविनमभिभन्येत । इत्याकारको यः प्रत्ययो विश्वासः स सर्वेषां भवतु, अस्मादेव कारणात् स्वस्याप्यकृत्यं भणति । एवमुक्ते तस्मिन् आचार्यः किं कुर्यादित्याह - ' तत्थ' इत्यादि, 'तत्थ पुच्छियव्वे' तत्र तादृशपरिस्थितिप्रसङ्गे यस्योपरि अभ्याख्यानं तेन दत्तं स समाहूयाचार्येण प्रष्टव्यः, कथं प्रष्टव्यः ? इत्याह-'किं पडिसेवी अपडिसेवी' किं भवान् प्रतिसेवी वा अथवा अप्रतिसेवी ? इति भवान् मैथुनं सेवितवान् वा अथवा न सेवितवान् ! एवं पृष्टे सति यदि - ' से य वएज्जा पडिसेवी परिहारपत्ते' स च वदेत् प्रतिसेवी सत्यमयं वदति । इत्येवं कथने साधुः परिहारप्राप्तः परिहारतपोयोग्यो भवति ततः तस्मै तदकृत्य प्रतिसेवनजनितपापान्निवृत्त्यर्थं परिहारनोमकं तपः प्रायश्चित्तरूपेण दातव्यम् उपलक्षणमेतत् तस्मात् छेदमूलाऽनवस्थाप्यपाराञ्चितनामकमपि प्रायश्चित्तं यथोचितमकृत्यप्रतिसेवकाय आचार्येण दातव्यमिति भावः । अथ च ' से यवएज्जा णो पडिसेवी णो परिहारपत्ते' स च वदेत् नो प्रतिसेवी, नाहं प्रतिसेवी अभ्याख्यानमात्रमेतत् इति वदेत् तदा स न परिहारप्राप्तः परिहारनामकतपोभागू न भवति । अथेव स्थिते कथं निश्चेतव्यं यदयमकृत्यस्थानं प्रतिसेवितवान् न वा ? तत्राह - 'जं से पमाणं' इत्यादि,
से पमाणं वयइ से य पमाणाओ वेतव्वे सिया' सः प्रतिसेवी यत् प्रमाणं वदति तस्मात् प्रमाणात् स ग्रहीतव्यः, स च अभ्याख्यानदाता प्रतिसेवनायाः प्रमाणं वदति कथयति, तस्मात् प्रमाणात्गृहीतव्यो 'ने चेतव्यः स्यात्, तथा प्रतिसेवकस्य कथनानुसारेणैव निश्चयः कर्त्तव्यः यदयं मैथुनं प्रतिसेवितवान्, यद्वा न प्रतिसेवितवानिति, तत्र यदि प्रमाणाद् एवं निश्चयो जायते यदयं मैथुनं प्रतिसेवितवान् तदा तस्मै परिहाराद्यन्यतमप्रायश्चित्तं यथायोग्यं दातव्यम्, यद्यत्र प्रमाणात् अयमकृत्यस्थानं न प्रतिसेवितवान् इत्याकारको निषेधविषयको निश्चय आचार्यस्य भवेत् तदा तस्मै परिहारादि प्रायश्चित्तं न दातव्यमिति भावः । तद्वचनादेव सर्वव्यवस्था कर्त्तव्या भवेदिति । शिष्यः पृच्छति - ' से किमाहु भंते' अथ किमाहुर्भदन्त ? अथ कस्मात् कारणात् भवान् एवं कथयति यत् तत्कथनानुसारमेव प्रायश्चित्तं दातव्यं न वा दातव्यमिति अत्र किं कारणम् ? आह - 'सच्चपइण्णा ववहारा' सत्यप्रतिज्ञाः व्यवहाराः, हे शिष्य ! व्यवहाराः जिनशासनव्यवहाराः सत्यप्रतिज्ञाः सत्यप्रतिज्ञावन्तस्तीर्थ करैर्दर्शिता इति सत्यमेव प्रतिज्ञा प्रमाणं ये ते सत्य - प्रतिज्ञाः व्यवहाराः सत्यमूलका एवैते जिनशासने प्ररूपिता इति । अत्र कश्चित् शङ्कते - किमर्थ - कः सार यस्मिन्नभ्याख्यानमारोपयति ? तत्रेदं कारणं संभवेत् - यः कश्चित् रत्नाधिकः अन्यं रत्नाधिकमीर्यया अवमरत्नाधिकं कर्तुमिच्छेत् यदहं रत्नाधिकोऽस्मि नायं रत्नाधिक इति गर्वेण कषायोदयेन वा एवं कुर्यात् । अत्रायं भावः सद्भूतार्थे ज्ञाते सति यदि तत्प्रतिसेवनं द्वयोः सत्यं भवेत्तदा द्वयोरपि मूलं दीयते । अथालीकमभ्याख्यानं तदा योऽभ्याख्यातः स शुद्ध इतरोऽशुद्धः ।