SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ im व्यवहार समुत्पयेत-यदनेनाचार्येण नवमं दशमं वा प्रायश्चित्तस्थानं सेवितमिति वयं न सहिष्यामः । इत्यादि कारणैरपि प्रवचनोड्डाहभयादगृहीभूतस्याप्युपस्थापनं कर्त्तव्यं स्यादित्यपवादसूत्रस्य भावः ॥ सू० २० ॥ पूर्वमनवस्थाप्य-पाराश्चितयोः पुनरुपस्थापनविधिः प्रोक्तः, साम्प्रतमेकत्रविहरतोईयोः साधर्मिकश्रमणयोमैथुनप्रतिसेवनविषयकविवादे निर्णयप्रकारमाह-'दो साहम्मिया' इत्यादि । सूत्रम्-दो साहम्मिया एगयो विहरंति, एगे तत्थ अण्णयरं अकिच्चट्ठाणं पडिसेवित्ता आलोएज्जा, अहणं भंते ! अमुएणं साहुणा सद्धि इमंमि य कारणमि मेहुणपडिसेवी, पच्चयहेउं च सयं पडिसेवियं भणइ तत्थ पुच्छियव्वे किं पडिसेवी ? अपडिसेवी ?, से य वएज्जा पडिसेवी परिहारपत्ते । से य वएज्जा णो पडिसेवी जो परिहारपत्ते । जं से पमाणं वयइ से य पमाणाभो घेतव्वे सिया से किमाइ भंते, सच्चपइण्णा ववहारा ॥ सू० २१॥ - छाया - द्वौ साधर्मिको एकतो विहरतः, एकः तत्राऽन्यतरमकृत्यस्थान प्रतिसेव्य आलोचयेत् - अहं खलु भदन्त ! अमुकेन साधुना साद्धंमस्मिन् कारणे मैथुनप्रतिसेवो प्रत्ययहेतोश्च स्वयं प्रतिसेवितं भणति, तत्र प्रष्टव्यः किं प्रतिसेवी ? अप्रतिसेवी ?, सच वदेत् प्रतिसेवी परिहारप्राप्तः, स च वदेत् नो प्रतिसेवी नो परिहारप्राप्तः। यत् स प्रमाण वदति स च तस्मात् प्रमाणात् गृहीतव्यः स्यात् । अथ किमाहुर्भदन्त । सत्यप्रतिक्षा व्यवहाराः ॥ सू० २१॥ भाष्यम्—'दो साहम्मिया' द्वौ सामिकौ समानधर्मिणौ ‘एगयो विहरंति' एकत एकेन संघाटेन विहरतः तिष्ठतः ‘एगे तत्थ' तत्र तयोईयोर्मध्ये एकः कश्चित् इतरस्याऽभ्याख्याननिमित्तम् 'अण्णयरं अकिच्चट्ठाणं' अन्यतरत् प्राणातिपातादिषु यत् किमप्येकमकृत्यस्थानं प्रतिसेवितवान् 'पडि से वित्ता' प्रतिसेव्य प्रतिसेवनं कृत्वा 'आलोएज्जा' आलोचयेत् स्ववचसा स्वकृतातिचारजातं गुरुसमीपे कृतपापस्थानस्यालोचनां कुर्यात् । आलोचनाप्रकारमेव दर्शयति-'अहण्णं भंते' अहं खलु भदन्त ! हे गुरो ! 'अमुएणं साहुणा' सद्धि अमुकेन येन केनचित् अनिर्दिष्टनामकेन साधुना सार्द्धम् अमुकेन साधुना सहितो भूत्वेत्यर्थः 'इममि य कारणंमि' अस्मिन् प्रतिसेवनार्थमाग्रहादिकरणे 'मेहुणपडिसेवी' मैथुनप्रतिसेवी मैथुनप्रतिसेवनं कृतवानित्यर्थः अमुकेन साधुना सह विचरन् तस्याग्रहेण मैथुनसेवी जातोऽस्मीति भावः ।। . स कस्मात् कारणात् आत्मानमप्रतिसेविनमपि प्रतिसेविनमभ्युपगच्छति न पुनः केवलं परस्याऽभ्याख्यानमेव कथं न ददाति ? तत आह-'पच्चयहेउं च' इत्यादि, 'पच्चयहेउं च सर्य पडिसेवियं भणई' प्रत्ययहेतुं च स्वयमात्मानमपि प्रतिसेविनं भणति परेषामाचार्याणां तथाऽ. न्येषां च साधूनाम् 'एषः सत्यमेव वदति अन्यथा को नाम स्वकीयमात्मानमप्रतिसेविनं प्रति
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy