SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ भाष्यम् स. २० परिहारस्थानसेविनः प्रायश्चित्तदानविधिः २७ प्रतिसेवते ततः प्रतिसेवनायां यत् प्रायश्चित्तं सेवते 'सेवि कसिणे' तदपि कृत्स्नम् अनुग्रहकृत्स्नेन निरनुग्रहकृत्स्नेन वा तत्थेव' तत्रैव पूर्वप्रस्थापितप्रायश्चित्ते एव 'आरुहियव्वे सिया' आरोहयितव्य मारोपणीयं स्यात् पुरतो यत्प्रायश्चित्तं पाण्मासिकादि तावन्मात्रमेव देयं न ततोऽधिकमिति । सू० १९॥ सूत्र-जे भिक्खू बहुसोवि चाउम्मासियं वा बहुसोवि साइरेगचाउम्मासियं वा बहुसोवि पंचमासियं वा बहुसोवि साइरेगपंचमासियं वा, एएसिं परिहारहाणाणं अन्नयरं परिहारद्वाणं पडिसे वित्ता आठोएज्जा, पलिउंचिय आलोएमाणस्स ठवणिज्ज ठावइत्ता, करणिज्ज वेयावडियं, ठाविएवि पडिसेवित्ता सेवि कसिणे तत्थेव आरुहियव्वे सिया, पुव्वं पडिसे वियं पुव्वं आलोइयं १, पुव्वं पडि सेवियं पच्छा आलोइयं २, पच्छा पडिसेवियं पुव्वं आलोइयं ३, पच्छा पडिसेवियं पच्छा आलोइयं ४। अपलिउंचिए अपलिउंचियं १, अपलिउंचिए पलिउंचियं २, पलिउंचिए अपलिउंचियं ३, पलिउंचिए पलिउंचियं ४। परिउंचिए पलिउचियं आलोएमाणस्स सबमेयं सकयं साहणिय जे एयाए पठवगाए पट्टविए निम्धिसमाणे पडिसेवइ सेवि कसिणे तत्थेव आरुहियब्वेसिया ॥ सू. २०॥ छाया—यो भिक्षुर्बहुशोऽपि चातुर्मासिकं वा, बहुशोऽपि सातिरेकचातुर्मासिकं वा, बहुशोपि पाञ्चमासिकं वा, बहुशोऽपि सातिरेकपाञ्चमासिकं वा, एतेषां परिहारस्थानानामन्यतरत् परिहारस्थानं प्रतिसेव्यालोचयेत्, प्रतिकुञ्च्यालोचयमानस्य स्थापनीयं स्थापयित्वा करणीयं वैयावृत्यम् । स्थापितेऽपि प्रतिसेव्य तदपि कृत्स्नं तत्रैवारोहयितव्यं स्यात्, पूर्व प्रतिसेवितं पूर्वमालोचितं १, पूर्व प्रतिसेवितं पश्चादालोचितं २, पश्चात् प्रतिसेवितं पूर्वमालोचितं ३, पश्चात्प्रतिसेवितं पश्चादालोचितम् ४। अप्रतिकुञ्चिते अप्रतिकुञ्चितं १, अप्रतिकुञ्चिते प्रतिकुञ्चितम् २, प्रतिकुञ्चिते अप्रतिकुञ्चितम् ३, प्रतिकुञ्चिते प्रतिकुञ्चितम् । प्रतिकुञ्चिते प्रतिकुञ्चितमालोचयमानस्य सर्वमेतत् स्वकृतं संहृत्य, य एतया प्रस्थापनया प्रस्थापितो निविंशमानः प्रतिसेवते तदपि कृत्स्नं तत्रैवारोहयितव्यं स्यात् ।। सू० २०॥ भाष्यम् –'जे भिक्खू' इति । 'जे भिक्खू' यः कश्चित् भिक्षुः साधुः साध्वी वा । 'बहुसोवि' बहुशोऽपि 'चाउम्मासिथं वा' चातुर्मासिकं वा वा 'बहुसोवि' बहुशोऽपि 'साइरेग चाउम्मासियं वा' सातिरेकचातुर्मासिकं पञ्चदिवसायधिकं चातुर्मासिकप्रायश्चित्तस्थानं वा 'बहुसोवि पंचमासियं वा' बहुशोऽपि पाञ्चमासिकं वा 'बहुसोवि साइरेगपंचमासिथं वा' बहुशोऽपि सातिरेकं पञ्चदिनाथधिकं पाञ्चमासिकं परिहारस्थानं वा । 'एएसि परिहारद्वाणाणं' एतेषांबहुशःपद घटितचातुर्मासिकादीनां परिहारस्थानानां प्रायश्चित्तस्थानानाम् । 'अन्नयरं
SR No.006364
Book TitleAgam 26 Chhed 03 Vyavahara Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages346
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_vyavahara
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy