________________
२६
ana
व्यवहारसूत्रे स्थानम् । 'एएसिं परिहारहाणाणं' एतेषां बहुशःपदघटितचातुर्मासिकादीनां परिहारस्थानानां मध्यात् 'अन्नयरं परिहारहाणं पडि से वित्ता' अन्यतरत् यत् किमप्येकं परिहारस्थानं चातु
सिकाद्यन्यतमरूपं प्रतिसेव्य 'आलोएज्जा' आलोचयेत् स्वकीयासेवितपापनिवारणाय आचार्यसमीपे प्रकाशयेत् । तत्र-'अपलिउंचिय आलोएमाणस्स' अप्रतिकुञ्च्य मायामन्तरेणालोचयतः 'ठवणिज्ज ठावइत्ता' स्थापनीयं स्थापयित्वा 'करणिज्ज वेयावडियं' वैयावृत्यं करणीयम् । 'ठाविएवि पडिसेवित्ता' स्थापितेऽपि यदि पुनरपि प्रतिसेव्य तादृशप्रतिसेवनां कृत्वा गुरुसमक्षमुपस्थितो भवेत् तदा 'सेवि कसिणे' तदपि प्रतिसेवितं कृत्स्नमेव संपूर्णमपि अपराधजातम् 'तत्थेव आरुहियव्वे सिया तत्रैव' पूर्वसंपादितापराधे षाण्मासिकादावेवारोपयितव्यम् आरोपणीयं स्यात् । तादृशारोपणे चत्वारो भङ्गा भवन्ति, तानेव दर्शयति-'पुव्वं पडिसेवियं पुव्वं आलोइयं' पूर्व प्रतिसेवितं पूर्वमालोचितम् १, 'पुव्वं पडिसेवियं पच्छा आलोइयं' पूर्व प्रतिसेवितं पश्चादालोचितम् २ । 'पच्छा पडिसेवियं पुव्वं आलोइयं' पश्चात्प्रतिसेवितं पूर्वमालोचितम् ३ । 'पच्छा पडिसेवियं पच्छा आलोइयं' पश्चातातिसेवितं पश्चादालोचितम् ४ । तत्राऽपि-'अपलिउंचिए अपलिउंचिय' अप्रतिकुञ्चिते अप्रतिकुञ्चितम्, यदाऽपराधानापन्नः आलोचनाऽभिमुखः तदैवं कश्चित् संकल्पितवान् , यथा 'सर्वेऽपि अपराधाः मया आलोचनीयाः' एवं पूर्वसंकल्पकालेऽप्रतिकुञ्चिते आलोचनावेलायामपि अप्रतिकुंञ्चितमेवालोचयति १ । 'अपलिउंचिए पलिउंचियं' अप्रतिकुंचिते प्रतिकुंचितम्, पूर्वसंकल्पकाले अप्रतिकुञ्चितमालोचितम् , आलोचनाकाले तु प्रतिकुञ्चितमालोचयतीति २ । 'पलिउंचिए अपलिउंचियं' प्रतिकुञ्चितेऽप्रतिकुञ्चितं पूर्वसङ्कल्पकाले केनाऽपि प्रतिकुञ्चितं यथा-मया सर्वेऽपराधा नाऽऽलोचनीयाः, पूर्वसङ्कल्पकाले प्रतिकुञ्चिते, आलोचनायां भावपरावृत्तेः सर्वमप्यप्रतिकुञ्चितमालोचयतीति ३ । 'पलिउंचिए पलिउंचियं' प्रतिकुञ्चिते प्रतिकुञ्चितम् , पूर्वसंकल्पकाले प्रतिकुञ्चिते, आलोचनाकालेऽपि प्रतिकुञ्चितमेवालोचयतीति ४ । अपलिउंचिए अपलिउंचियं आलोएमाणस्स अप्रतिकुञ्चितेऽप्रतिकुञ्चितमालोचयतः 'सत्यमेयं सकयं साहणिय' सर्वमेतत् स्वकृतं संहृय, सर्वमेतत् यद्यदापन्नमपराधजातं, यदि वा कथमपि प्रतिकुञ्चना कृता स्यात् , ततः प्रतिकुञ्चनानिष्पन्नमपराधजातं सकलमेतत् स्वकृतमपराधकारिणा कृतं सम्पादितं सर्वमपराधजातं संहृत्यैकत्र मेलयित्वा यदि संचयितं प्रायश्चित्तस्थानम् आपन्नः ततः पाण्मासिकं प्रायश्चित्तं दद्यात् । यत्पुनः षण्मासातिरिक्तं तत्सर्वं परित्यजेत् । अथ मासादिकं प्रायश्चित्तमापन्नः ततः तदेव मासादिकं दातव्यमिति । जे 'एयाए पट्टवणाए पट्ठविए' यः कश्चित्साधुः साध्वी वा एतया अनंतरपूर्वकथितया प्रस्थापनया प्रस्थापितः प्रायश्चित्तकरणे प्रवर्त्तितः 'निव्विसमाणे निविंशमानः प्रायश्चित्तमुपसेव्य निस्सरन् 'पडि सेवइ' प्रमादतो विषयकषायादिभिर्वा पुनः पापं