________________
भाष्यम् उ० १ सू० ४०
सप्तसप्तककादिप्रतिमानां कालभिक्षापरिमाणनि० २२१ छण्णउयं सयमेगं, अट्टासीई य दो सया या । पंचुत्तरा चउसया, पण्णासऽहिया य पंच सया ॥ ४ ॥ पडिमा चउपि य, भिक्खापरिमाणमेत्थ पुव्वत्तं । कमसो एया सव्वा, आणाए पालिया होंति" ॥ ५ ॥ इति । प्रथमायाः प्रतिमायाः काल एकोनपञ्चाशदिवसानाम् | द्वितीयायाश्चतुष्षष्टिः, एकाशीतिश्व तृतीयायाः ॥ १ ॥ चतुर्थ्याः शतमेकं दिवसानां भवति चतसृप्रतिमानाम् । भिक्षाणां परिमाणं वक्ष्ये चतसृष्वपि प्रतिमासु ॥ २ ॥ दत्तिः प्रथमे एका नित्यं वर्द्धयेद् एवमेकैकाम् । सप्तमाऽष्टम-नवम-दशमं, सप्तकादि च भिक्षाणाम् ॥ ३ ॥ षण्णवतं शतमेकम्, अष्टाशीतिश्च द्वेशे ते ज्ञेये ।
छाया
पञ्चोत्तराणि चतुरशतानि पञ्चाशदधिकानि च पञ्च शतानि ॥ ४ ॥ प्रतिमासु चतसृष्वपि च, भिक्षापरिमाणमत्र पूर्वोक्तम् । क्रमश एताः सर्वाः, आशया पालिता भवन्ति ।। ५ ।। इति ॥
कालः,
व्याख्या - 'पढमाए' इति । प्रथमायाः प्रतिमाया एकोनपञ्चाशदिवसा : ( ४९ ) एकोनपञ्चाशदिवसैः प्रथमा सप्तसप्तकिका भिक्षुप्रतिमा संपद्यते १ । एवं द्वितीया अष्टाऽष्टकिका भिक्षुप्रतिमा चतुष्षष्टिसंख्यकै दिवसैः (६४) संपद्यते २ । तृतीया नवनवत्रिका भिक्षुप्रतिमा एकाशोतिदिवसैः (८१) संपद्यते ३ । गा० १ ॥ चतुर्थी दशदशकिका भिक्षुप्रतिमा शतसंख्यकैर्दिवसैः (१००) संपद्यते । एतत्कालपरिमाणं चतसृष्वपि भिक्षुप्रतिमासु भवति ॥ गा० २ || अथ भिक्षाया दत्तिग्रहणपरिमाणं प्रदर्श्यते - 'दत्ती' इति आसु चतसृष्वपि प्रतिमासु प्रथमे सप्तकादिके इति प्रथमे सप्तके, प्रथमेऽष्टके, प्रथमे नवके, प्रथमे दश एकैका दत्तिर्भोजनस्य एका पानस्य च गृह्यते । एवम् अनेन प्रकारेण नित्यं सदा द्वितीयादिसप्तकादिषु एकैकां दत्ति भिक्षाणां वर्द्धयेत् । कियत्पर्यन्तमित्याह - 'सत्तट्ठ०' इत्यादि, सप्तमा - Sष्टम - नवम - दशमदशकं यावत् ।
अयं भावः - सप्तसप्तकिकायां प्रतिमायां सप्तमं सप्तकं यावदिति सप्तमसप्तकपर्यन्तं वर्द्धयेत् । अष्टाष्टकिकायां प्रतिमायाम् अष्टमाष्टकपर्यन्तं वर्द्धयेत् । नवनवकिकायां प्रतिमायां नवमनवकपर्यन्तं वर्द्धयेत् । दशदशकिकायां प्रतिमायां दशमदशकपर्यन्तमेकैकां दत्ति वर्द्धये - दिति ॥ गा० ३ ॥
अथ - - भिक्षापरिमाणमाह-- ' छण्णउयं' इत्यादि । 'छण्णउयं सयमेगं' इति षण्णवतंषण्णवत्यधिकमेकं शतं (१९६) सप्तसप्तकिकाप्रतिमायां भिक्षाणां भवति १ । 'अट्टासीई य दो सया' इति - अष्टाशीत्यधिकं शतद्वयम् (२८८) अष्टाष्टकिकाप्रतिमायां भिक्षाणां