________________
m
व्यवहार 3 छाया-सागारिकस्य औषधयः संस्तृताः ताभ्यो दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० ३३ ॥ सागारिकस्य औषधयोऽसंस्तृताः ताभ्यो दद्यात् एवं तस्य कल्पते प्रतिग्रहीतुम् ॥ सू०३४॥
भाष्यम्-'सागारियस्स' सागारिकस्य-शय्यातरस्य 'ओसहीओ' औषधयः--शालिव्रीहिगोधूमादयः, तन्निष्पादितानि भोज्यजातान्यपि औषधिशब्देन व्यवह्रियन्ते तेन शाल्यादिनिष्पादितानि भोज्यजातानि, तदन्या वा ओषधयः सुण्ठ्यादयो या भवन्ति 'संथडायो' संस्तृताः--सूपकाररसवत्या सर्वसाधारणतया संस्कृताः पाचिताः, साधारणा इति यत्राऽन्येपि स्वत्वान्नादिकं पाचयन्ति ततः सर्वेषां संमिलिता इत्यर्थः 'तम्हा दावए' तस्माद्-अओषधिसम्बन्धिभोजनजातात् सूपकारः श्रमणाय दद्यात् 'नो से कप्पइ पडिगाहितए' सादृशं दीयमानमन्नादिकं नो-नैव 'से' सस्य-श्रमणस्य कल्पते प्रतिग्रहीतुम् ॥ सू० ३३ ॥
अथ च या औषधयः असंस्तृताः ----असाधारणाः सागारिकभागरहिताः, विभज्य तन्मध्यात् शय्यातरभागो निष्कासितो भवेत्तादृशभोजनमध्याद् यदि सूपकारो दद्यात्तदा कल्पते साधूनां प्रतिग्रहीतुम् । ___ अयं भावः-सूपकारस्य पाकशालायां विवाहादिविविधमहोत्सवप्रसङ्गे लोका विविधा औषधीः पाचयन्ति तत्र सागारिकोऽपि पाचयति, ता द्विप्रकारका भवन्ति संस्तृताः साधारणाः सर्वेषां भागयुक्ताः, असंस्तृता:-असाधारणाः अन्यभागरहिता इति । तत्र या औषधयः शय्यातरेण सह साधारणाः -शय्यासरेणाऽविभक्तीकृताः, ता औषषयो दीयमाना अपि साधूनां न कल्पते प्रतिग्रहीतुम् , सागारिकभागाविभतरवेन तासां सागारिकपिण्डत्वस्यैव सद्भावात्। ता एव विभक्तीकृताः सागारिकपिण्डरूपा न भवन्ति ततश्च ताः प्रतिग्रहीतुं कल्पते साधूनामिति सूत्रत्यभावः ॥ सू० -३४ ॥
पूर्वमोपषिविषयं कल्प्याकल्प्यसूत्रमुक्तम् , साम्प्रतमात्रफलान्यधिकृत्य कल्प्याकल्प्यविधि . सूत्रद्वयेनाह–'सागारियस्स' इत्यादि ।
सूत्रम् – सागारियस्स अंबफला संथडा तम्हा दावए नो से कप्पइ पडिगाहित्तए ॥ सू० ३५॥
सागारियस्स अंबफला असंथडा तम्हा दावए एवं से कप्पइ पडिगाहित्तए
छाया-सागारिकस्य--आम्रफलानि संस्तृतानि तेभ्यो दद्यात् नो तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० ३५ ॥ - सागारिकस्य--आम्रफलानि असंस्कृतानि तेभ्यो दद्यात् एवं तस्य कल्पते प्रतिग्रहीतुम् ॥ सू० ३६ ॥