________________
भीष्यम् उ० ९ सू० ३३-३६
औषध्या फलग्रहणाग्रहणविधिः २१३
भाष्यम् – 'सागारियस गोलियसाला' इत्यादीनि एकोनविंशतितमसूत्रादारभ्य द्वात्रिंत्तमसूत्रपर्यन्तानि चतुर्दश सूत्राणि चक्रिकाशालावत् प्रायः समानव्याख्यानानि सन्ति, तत्र विषमपदव्याख्या प्रतन्यते-‘गोलियसाला' गौडिकशाला - गुडविक्रयशाला ॥ सू० १९ ॥२०॥ 'बोधियसाला ' बोधिकशाला - तन्दुलादिक्रयाणकविक्रयशाला ॥ सू० २१।२२ ॥ 'दोसियसाला' दौषिकशाला - वस्त्रविक्रयशाला ॥ सू० २३ । २४ ॥ 'सोत्तियसाला' सौत्रिक - शाला - सुत्रविक्रयशाला ॥ सू० २५।२६ ॥ 'बोंडयसाला' बोण्डजसाला - कर्पासविक्रयशाला ॥ सू० २७।२८ ॥ 'गंधियसाला' गान्धिकशाला - गन्धद्रव्यविक्रयशाला ।। सू० २९ । ३० ।। 'सौडियसाला' शौण्डिकशाला - 'सुखडी' – तिप्रसिद्धमिष्टान्नविक्रयशाला कान्दविकापण इत्यर्थः ॥ सू० ३१।३२ ॥ तथाविधा अन्या अपि शाला भवेयुः, तासु सर्वासु शालासु मध्ये या या 'साहारणवक्कयपउत्ता' साधारणावक्रयप्रयुक्ता - सागारिकभागयुक्ता भवेत्तन्मध्याद्दीयमानं किमपि गुडादिवस्तुजातं साधूनां ग्रहीतुं नो कल्पते, तत्र सागारिकभागसत्वेन शय्यात रपिण्डदोषसद्भावात् । तथा-या या च ' निस्साहारणत्रक्कयपउत्ता' निस्साधारणावक्रयप्रयुक्ता - सागारिक भागवर्जिता स्वतन्त्रा गुडादिविक्रेतुरेव स्वाधीना न तु तत्र कस्याप्यन्यस्य सागारिकस्य वा आंशिकोऽपि भाग वर्त्तते तस्या लाभादिग्राही तदधिकारी च स एक एव भवेत्, अथवा सागारिकव्यतिरिक्ता अनेके वा भागिनो भवेयुः किन्तु यत्र सागारिकभागो न भवेत्तादृश्याः शालाया मध्याद्दीयमानं गुडादिवस्तुजातं साधूनां प्रतिग्रहीतुं कल्पते, तत्र सागारिकभाग रहितत्वान्न तद्ग्रहणे दोषः । इत्येकोनविंशतितमसूत्रादारभ्य द्वात्रिंशत्तमसूत्रपर्यान्तानां चतुर्दशसूत्राणां तात्पर्यम् ॥ एषु चतुर्दशसु सूत्रेषु मध्ये सप्तसु प्रथम- तृतीय - पश्चम-सप्तम नवमै-कादश-त्रयोदश-रूपेषु (१९-२१२३-२५-२७-२९-३१) शय्यातरभाग सत्त्वात्तत्तच्छालातो दीयमानं वस्तुजातं साधूनामकलयम् । तथा सप्तसु - द्वितीय - चतुर्थ - षष्ठाऽष्टम- दशम द्वादश- चतुर्दशरूपेषु (२०-२२-२४-२६२८-३०-३२) शय्यातरभागराहित्येन तत्तच्छालातो दीयमानं वस्तुजातं साधूनां कल्प्यमिति चतुर्दशसूत्राशयः । सू० १९-३२ ॥
पूर्व सागारिकशाला मधिकृत्य कल्पयाकल्प्यविधिः प्रदर्शितः, साम्प्रतं सूपकाररसवत्यां पथ्यमाना औषधीरधिकृत्य सागारिकाऽसागारिकाहारे कल्पयाकल्प्यविधिं सूत्रद्वयेनाह - 'सागा - रियtस ओसहीओ' इत्यादि ।
सूत्रम् - सागारियस्स ओसहीओ संथडाओ तम्हा दावए नो से कप्पर पडिगाहित्तए । सू० ३३ ॥
सागाfरयस्स ओसीओ असंथडाओ तम्हा दावए एवं से कप्पइ पडिगाहित्तए ॥ सु० ३४ ॥