________________
१७२
व्यवहारसूत्रे - छाया-नो कल्पते निर्ग्रन्थीनां निर्ग्रन्थमात्मनोऽर्थाय प्रवाजयितु वा, मुण्डापयितु वा, शिक्षयितु वा, उपस्थापयितुं वा, संभोस्तु वा, संवस्तु वा, तस्या इत्वरिकां दिशं वा, अनुदिशं वा, उद्देष्टुं वा धारयितु वा ॥ सू० ८ ॥
भाष्यम्-"नो कप्पइ णिग्गंथीणं' नो कल्पते निम्रन्थीनाम् णिग्गंथ' निम्रन्थम् 'अप्पणो अट्ठाए' आत्मनोऽर्थाय-आत्मनः-स्वस्याः प्रयोजनाय 'पव्वावेत्तए वा' प्रवाजयितुं वा, इत्यादि सर्व पूर्ववदेव व्याख्येयम् ॥ सू० ८॥
पूर्व निर्ग्रन्थीनां स्वनिमित्तं निम्रन्थस्य प्रव्राजनादि न कल्पते इति प्रोक्तम् , सम्प्रति परनिमित्तम्-आचार्यादिनिमित्तं कल्पते इति तद्विपर्य ये सूत्रमाह- 'कप्पइ णिग्गथीणं' इत्यादि ।
सूत्रम्-कप्पई णिग्गंथीणं णिग्गंथं णिग्गंथाणं अट्ठाए पवावेत्तए वा, मुंडावेत्तए वा, सेहावेत्तए वा, उवट्ठावेत्तए वा, संभुंजित्तए वा, संवसित्तए वा, तस्स इत्तरिय दिसं वा, अणुदिसं वा, उदिसित्तए वा, धारित्तए वा ॥ सू० ९॥
___ छाया--कल्पते निर्ग्रन्थीनां निर्ग्रन्थं निर्ग्रन्थानामर्थाय प्रव्राजयितुवा, मुण्डापयितु वा, शिक्षयितु वा, उपस्थापयितुवा, संभोक्तुंवा, संवस्तुं वा, तस्य इत्वरिकां दिशं वा अनुदिशं वा, उद्देष्टुं वा धारयितुं वा ॥ सू० ९ ॥
भाष्यम्--'कप्पइ निग्गंथीणं' कल्पते-निर्ग्रन्थीनाम् 'णिग्गं' निम्रन्थम् णिग्गंथाणं अहाए' निर्ग्रन्थानां श्रमणानामाचार्योपाध्यायादीनामर्थाय-प्रयोजनाय 'पव्वावेत्तए' वा प्रव्राजयितुं वा, इत्यादि सर्व पूर्ववद् व्याख्येयम् ॥ सू० ९॥
पूर्व स्वनिमित्तं दीक्षादानं निषिध्य अन्यार्थ दीक्षादानमुक्तम् , अन्यार्थ दीक्षादानं दत्वा च यन्निश्रामधिकृत्य दीक्षा दत्ता तदाचार्यादिसमीपे प्रेषणार्थ नियमात्तस्य विहारः कारयितव्यः, इति प्रथमं निम्रन्थीमधिकृत्य विहारविधिमाह-'नो कप्पई' इत्यादि।
सूत्रम्-नो कप्पइ णिग्गंथीणं विइकिट्ठियं दिसं वा, अणुदिसं वा, उद्दिसित्तए वा धारित्तए वा ॥ सू० १०॥
___ छाया--नो कल्पते निर्ग्रन्थोनां व्यतिकृष्ट दिशं वा, अनुदिशं वा, उद्देष्टुं वा, धारयितु वा ॥ सू० १० ॥
भाष्यम्-'नो कप्पइ णिग्गंथीणं" नो कल्पते निम्रन्थीनाम् “विइकिद्वियं दिसं वा अणुदिसं वा" व्यतिकृष्टां दूरस्थां दिशं वा, अनुदिशं वा, तत्र व्यतिकृष्टाम् , व्यतिकृष्टा दिग् द्विविधा भवति क्षेत्रतो भावतश्च, तत्र क्षेत्रतः क्षेत्रमाश्रित्य दूरदेशरूपा, भावतो दूरसम्बन्धगताचार्यादिरूपा, तत्र संयतस्य-आचार्योपाध्यायरूपा द्विविधा । संयत्याश्च आचार्योपाध्यायप्रवर्तिनीरूपा त्रिविधा दिग् भवति, तां क्षेत्रतो भावतश्च विप्रकृष्टां-दूरस्थां दिशम् 'अणुदिसं वा' अनुदिशम्-विशेषतो विप्रकृष्टां दिशम् “उद्दिसित्तए वा" उद्देष्टुम्-अन्यमन्यां वाऽनुज्ञातुं तादृशदिग्ग