________________
भाष्यम् उ० ७ ० ६-१०
निग्रन्थनिर्ग्रन्थ्योः प्रवाजनविधिः १७१
छाया--नो कल्पते निर्ग्रन्थानां निर्ग्रन्थीमात्मनोऽर्थाय प्रव्राजयितुं वा मुण्डापयितुं वा उपस्थाययितुं वा संभोक्तुं वा संवस्तुं वा, तस्या इत्वरिकां दिशं वा अनुदिशं घा उद्देष्टुं वा धारयितुं वा ॥ सू० ६ ॥
भाष्यम् – 'नो कप्पइ णिग्गंथाणं' नो कल्पते निर्ग्रन्थानाम् 'निम्गंथिं' निर्ग्रन्थीम् 'अपणो अडाए' आत्मनोऽर्थाय - स्वस्य शिष्याकरणाय ' इयं मम शिष्या भविष्यती' - तिबुद्धया' 'पव्वावेत्तए वा' प्रव्राजयितुं वा - सामायिकारोपणेन प्रव्रज्यां दातुं' वा 'मुंडावेत्तए वा' मुण्डा - पयितुं वा–लोचादिकरणेन मुण्डितां कर्तु वा 'सेहावेत्तए वा' शिक्षयितुं वा - ग्रहणासेवन शिक्षां दावा, 'उवद्वावेत्तवा' उपस्थापयितुं वा छेदोपस्थापनचारित्रे आरोपयितुं वा 'संभुंजित्तए वा' संभोक्तुं वा द्वादशविध संभोगानां मध्येऽन्यतमं संभोगमाचरितु वा प्रदानरूपं व्यवहारं कर्त्तुमित्यर्थः, 'संवसित्तए वा' संवस्तु वा - तया सह वासं कर्तुम् - एकत्र स्थातु ं न कल्पते । तथा-'तीसे इत्तरियं दिसं वा' तस्याः संयत्या इत्वरिकाम् - अल्पकालिक दिशं प्रवर्त्तिन्यादिपदवीम् ‘अणुदिसं वा' अनुदिशं वा - यावज्जीविकां पदवीं वा 'उद्दिसित्तए वा धारित वा' उद्देष्टुम् - अनुज्ञातुं वा धारयितुं वा न कल्पते ॥ सू० ६ ॥
भक्तपानाद्यादान
पूर्वं निर्ग्रन्थानां स्वनिमित्तं निर्ग्रन्ध्याः प्रव्राजनादिनिषेधः कथितः सम्प्रति - अन्यप्रवर्त्तिन्यादिनिमित्तं तत्कल्पते, इति विपर्यये सूत्रमाह - ' कप्पर णिग्गंथाणं' इत्यादि । सूत्रम् - कप्पर णिग्गंथाणं णिग्गंथिं अन्नासिं अट्ठा पवावेत, वा, मुंडावेत्तए वा, सेहावेत्त वा उवद्वावेत्तए वा, संभुंजित्तए वा, संवत्तिए वा, तीसे इत्तरियं दिसं वा, अणुदिसं वा, उद्दित्तिए वा धारितए वा ॥ सू० ७ ॥
छाया -कल्पते निर्ग्रन्थानां निर्ग्रन्थीम् अन्यासामर्थाय प्रव्राजयितुं वा, मुण्डापयितुं वा, शिक्षयितुं वा, उपस्थापयितुं वा संभोक्तुं वा, संवस्तु वा तस्या इत्वरिका दिशं वा अनुदिशं वा उद्देष्टुं वा धारयितुं वा ॥ सू० ७ ॥
भाष्यम् – 'कप्पर णिग्गंथाणं' कल्पते निर्ग्रन्थानाम् 'णिग्गंर्थि' निर्ग्रन्थीम् ' अन्नासि अट्टाए' अन्यासामर्थाय तत्र अन्यासाम् प्रवर्त्तिन्यादीनाम् अर्थाय प्रयोजनाय. 'एता एतस्या उपग्रहं करिष्यन्ती'- त्यभिप्रायेण, न तु स्वात्महितायेत्यर्थः, 'पव्वावेत्तए वा' इत्यादि स पूर्ववदेव व्याख्येयम् ॥ सू० ७ ॥
निर्ग्रन्धानां निर्ग्रन्थीविषये प्रवाजनादिविधिरुक्तः, सम्प्रति निर्ग्रन्थीनां निर्ग्रन्थविषये तन्निषेधमाह - 'नो कप' इत्यादि ।
सूत्रम् - नो कप्पइ णिग्गथीणं णिग्गंथ अपणो अट्ठार पवावेत्तए वा मुंडावेत्तए वा, सेहावेत्तए वा, उवद्यावेत्तए वा, संभुंजित्तए वा, संवसित्तए वा, तस्स इतरिय दिसं वा, अणुदिसं वा, उद्दित्तिए वा धारितए वा ॥ सू० ८ ॥