________________
१३४
व्यवहारसूत्रे यां खलु दिशम् अन्याःसाधर्मिण्यो विहरंति तां खलु तां खलु दिशमुपलातुम् , नो तस्याः कल्पते तत्रविहारप्रत्ययं वस्तुम् , कल्पते तस्यास्तत्र कारणप्रत्ययं वस्तुम् . तस्मिश्च कारणे निष्ठिते परा वदेत् वस आर्ये ! एकरात्रं वा द्विरात्रं वा, एवं तस्याः कल्पते एकरात्र वा द्विरात्र वा वस्तुम् , नो तस्याः कल्पते परमेकरात्राद्वा द्विरात्राद्वा वस्तुम् , यत्तत्र परमेकरात्राद्वा द्विरात्राद्वा वसति तस्याः सान्तरात् छेदो वा परिहारो वा ॥ सू० १२ ॥
भाष्यम् -'वासावासं पज्जोसविया' वर्षावासं वर्षावासनिमित्तं पर्युषिता निवासार्थ स्थिता 'निग्गंथी' निर्ग्रन्थी। शेषं सर्वं चतुर्थोद्देशगतद्वादशसूत्रव्याख्यानवत् स्त्रीत्वनिर्देशेन व्याख्यातव्यम् ॥ सू० १२ ॥
सूत्रम्--पवत्तिणी य गिलायमाणी अन्नयरं वएज्जा मए णं अज्जो ! कालगयाए समाणीए इमा समुक्कसियव्या सा य समुक्कसणारिहा समुक्कसियव्वा, सा य नो समुक्कसणारिहा नो समुक्कसियव्या, अत्थि या इत्थ अन्ना काइ समुक्कसणारिहा समुक्कसियव्वा, नत्थि या इत्थ अन्ना काइ समुक्कसणारिहा साचेव समुक्कसियवा, ताए णं समुक्किठाए परा वएज्जा दुस्समुक्किडं ते अज्जे ! निक्खिवाहि, ताए णं निक्खिवमाणीए नत्थि केइ छेए वा परिहारे वा, जाओ साहम्मणीओ अहाकप्पेणं नो उट्ठाए विहरंति सम्बासि तासिं तप्पत्तियं छेए वा परिहारे वा ॥ सू० १३ ॥
छाया-प्रतिनी च ग्लायन्तीअन्यतरां वदेत् मयि खलु आयें ! कालगतायां सत्यामियं समुत्कर्षयितव्या। सा च समुत्कर्षणार्हा समुत्कर्षयितव्या, सा च नो समुत्कर्षणाऱ्या नो समुत्कर्षयितव्या, अस्ति चाऽचाऽन्या काचित्समुत्कर्षणार्हा सा समुत्कर्षयितव्या नास्ति चात्राऽन्या काचित् समुत्कर्षणार्हा सैव समुत्कर्षयितव्या , तस्यां च खलु समुत्कृष्टायां परा वदेत् दुःसमुत्कृष्टं ते आर्ये ! निक्षिप, तस्या निक्षिप्यमाणायाः नास्ति कश्चित् छेदो चा परिहारो वा, ता यदा साधर्मिण्यो यथाकल्पेन नो उत्थाय विहरन्ति तासां सर्वासां तत्प्रत्यय छेदो वा परिहारो वा ।। सू० १३॥
भाष्यम् –'पवत्तिणी य' प्रवर्तिनी च 'गिलायमाणी' ग्लायन्ती रोगादिना ग्लानिमुपगता मरणासन्ना सतीत्यर्थः 'अन्नयरं वएज्जा' अन्यतरां संयती वा वदेत् कथयेत् । शेष सर्वं चतुथोदेशगताचार्योपाध्यायात्मकत्रयोदशसूत्रवदेव व्याख्येयम् नवरं केवलमत्र विशेषोऽयम्-यत्तत्र 'से य नो समुक्कसणारिहे' इत्यस्यार्थे समुद्यतविहारजिनकल्पसमुद्यतमरणं प्रत्तिपत्तुकामः, इत्युक्तम् अत्र च प्रवर्तिनीसूत्रे 'सा य नो समुक्कसणारिहा' इत्यस्य भक्तप्रत्याख्यानं प्रतिपत्तुकामा यदि भवेत् इत्यर्थः कर्त्तव्यः, एतावानेवात्र भेदः, अन्यच्च तत्र पुंस्त्वेन निर्देशः अत्र तु स्त्रीत्वेन निर्देशः कुर्तव्यः ॥ सू० १३ ॥