________________
wwww
व्यवहार लषति स संयमकुशलः कथ्यते । 'पवयणकुसले' प्रवचनकुशलः, तत्र प्रवचनं जिनवचनं, तत्परिपालने कुशलः, तस्मिन् ज्ञातव्ये तदुपदेशे वा कुशलो दक्षो यः स प्रवचनकुशलः । अयंभावः-प्रवचनकुशलो नाम यः सूत्रस्य तदर्थस्य हेतुकारणप्रतिपादनपूर्वकं धारको न तु अक्षराराधनमात्रधारकः, अर्थनिर्णयप्रदानादिना श्रुतस्नानां निधानमिव पूर्णः पूर्वापराऽव्याहतत्वेन प्रवचनस्य निश्चायकः, बहुश्रुताचार्यसकाशाद् वाचनाग्राहित्वाद् विपुलवाचनादायकः, प्रवचनमधीत्यात्मनो हितमाचरति अन्येषां च हितमुपदिशति, प्रवचनाऽवर्णभाषिणां निग्रहे समर्थः. अनिगूहितस्वशक्तित्वेन प्रवचनप्रभावकः, स्वपरसंसारनिस्तारणे समर्थो भवति स प्रवचनकुशलः कथ्यते इति । 'पन्नत्तिकुसले' प्रज्ञप्तिकुशलः, तत्र प्रज्ञप्ति म स्वसमयपरसमयप्ररूपगारूपा, तथा च स्वकीयशास्त्रप्रतिपादितानि, तथा परदर्शनप्रतिपादितानि यानि पदार्थजातानि तेषां ज्ञाने कुशलो निपुणो यः स प्रज्ञप्तिकुशलः । यः स्वसमयप्ररूपणानियममधिकृत्य कुसमयान् मथ्नाति स प्रज्ञप्तिकुशलः कथ्यते इति भावः । 'संगहकुसले' संग्रहकुशलः-संग्रहे दक्षः तत्र संग्रहणं सम्यगरूपेणोपादानम् इति । स च संग्रहो द्विप्रकारकः, तद्यथा-द्रव्यतो भावतश्च, तत्र द्रव्यतः संग्रह आहारोपधिपात्रादीनाम् , भावतः संग्रहः सूत्रार्थयोः । तयोढिप्रकारकयोरपि संग्रहयोः करणे कुशलो दक्षो यः स संग्रह कुशलः । अयं भावः-संग्रहकुशलो नाम-द्रव्यभावतः सूत्रार्थादिवस्तुजातस्य स्वात्मनि संग्राहकः, तथाहि-गृहीतमौनव्रतस्याभाषणे केनापि कृतप्रश्नस्योत्तरभाषणम् , वाचनादानेन क्लान्ते गुरौ साधूनां वाचनादानम् , देशकालानुसारेण आचार्यादीनां ग्लानाद्यनुकम्पनस्य स्मारणम् , यथादेशकालं बालवृद्धाऽसहानामनुकम्पनम् , सामाचार्या सीदतां कथञ्चिद् रुष्टानां वा शास्त्रोपदेशतोऽनुशासनम् , ज्ञानाचारादिषु अभ्युद्यतानामुपवृंहणम् , यद् यस्योपकारकं भक्तमुपधिर्वा तत्तस्य स्वयमानीय प्रदानम् , सौवनलेपनादिकुर्वतो दृष्ट्वा-इच्छाकारेण भवत इदमहं करोमोति भणनं तत्करण कारापणं वाऽन्यसकाशात् इत्यादिगुणानां संग्रहो यस्मिन् विद्यते स संग्रहकुशल इति । 'उवग्गहकुसले' उपग्रहकुशलः, तत्रोप - सामीप्येन ग्रहणमुपग्रहः, स चोपग्रहो द्विप्रकारकः, तद्यथा-द्रव्यतो भावतश्च । तत्र येषां साधूनामाचार्य उपाध्यायो वा गणप्रवर्तको न विद्यते तान् आत्मसमीपे समानीय तेषामित्वरां दिशं इत्वरकालभाविनी दिशम् आचार्यत्वमुपाध्यायत्वं च प्रकल्प्य तान् तावत्पर्यन्तं धारयति यावदाचार्य उपाध्यायो वा निष्पाद्यते, अयं च द्रव्यत उपग्रहः । यः खलु विशेषेण सर्वेषामेव सूक्ष्मबादरजीवानामुपकारे वर्तते स भावत उपग्रहः, तत्र कुशल उपग्रहकुशलः, तत्र उपग्रहो नाम-बालासमर्थवृद्धमार्गगमनादिश्रान्ततपःक्लान्तवेदनातजातरोगातङ्कानां शय्यानिषद्योपधिभक्तपानौषधमैषज्यौपग्रहिकोपकरणादिभिरुपग्रहोपष्टम्भकरणम् । कथमित्याह-पूर्वोक्तबालादिभ्यः पूर्वोक्तं शय्यादिवस्तुजातं स्वयं ददाति, अन्यैर्वा दापयति, तथा स्वयं वैयावृत्त्यादि करोति अन्यैर्वा कारयति,