________________
भाग ३० ३ सू० ३
त्रिवर्षपर्यायस्योपाध्याय पददानविधिः ७९
यः स निर्ग्रन्थः, नहि भवति शाक्यादिभिक्षुर्दव्यभावो भयग्रन्थरहितः अतः स निर्ग्रन्थो न भवतीति निर्मन्थ इति कथितम् । स पुनः कथम्भूतः इति तद्विशेषणान्याह - ' आयार०' इत्यादि, 'आयारकुसले' आचारकुशलः ज्ञानादिपश्चाऽऽचारदक्षः । कुशलो द्विधा भवति - द्रव्यतो भाव तश्च । तत्र कुशल इति कुशं दर्भ लुनातीति कुशलः, यः कुशं दात्रेण यथा लुनाति न कचिदपि कुशो दात्रेण विच्छिन्नो भवति स द्रव्यकुशलः, यः पुनः ज्ञानादिपञ्चविधाचाररूपेण दात्रेण कर्मरूपं कुशं लुनाति स भावकुशल: ज्ञानाद्याचारेण कर्मकुशलः कर्मच्छेदको यः स आचारकुशलः, आचारविषयकसम्यदः परिज्ञानवान् इत्यर्थः, अन्यथा कर्म कुशच्छेदकाऽनुपपत्तेः । अथवाकुशलशब्दो दक्षवाची तेनाऽऽचारे ज्ञातव्ये प्रयोक्तव्ये वा कुशलो दक्षः स आचारकुशल इति ।
अयं भावः -- आचार कुशलः, तत्र आचारः - ज्ञानाद्याचारविनयाचारभेदेन द्विविधः । तत्र ज्ञानाद्याचारो यथा - यः स्वस्वोचिते काले स्वाध्यायं प्रतिलेखनादिकं स्वोचितं तपश्च करोति, आत्मनो ज्ञानादिकमधिकं निर्मलतरं च वाञ्छन् सदैव गुरुषु बहुमानपरो भवति । एष ज्ञानाचाचारः प्रतिपादितः । यो रत्नाधिकानामागच्छतामभ्युत्थानं करोति, आसनं ददाति, समागतानां पीठफलकाद्युपनयति, गच्छतां प्रति आसनादिकं नयति, तथा प्रतिलेखनानन्तरम् आगत्य आचार्यान् प्रार्थयति - आदिशतु भदन्त ! किं करोमीति, अभ्युपेतानामात्मसमीपवत्तित्वं करोति, यथानुरूपं रत्नाधिकानां कृतिकर्म करोति, मधुरं वदति, चापल्यकौ कुच्यवञ्चनारहितो वर्त्तते, इत्यादिः सर्वोऽपि वीर्याचारोऽवसेयः । एवं ज्ञानाद्याचारे विनयाचारे च कुशलः, स आचारकुशल: कथ्यते । 'संजमकुसले' संयम कुशलः, तत्र - संयमः पृथिवीकायसंयमादिमेदेन सप्तदशविधः, तस्मिन् संयमे ज्ञातव्ये परिपालने वा कुशलो दक्ष इति संयम कुशलः । अयं भावः -संयमकुशलो नामः यः उपकरणानामादानं निक्षेपणं च प्रतिलेख्य प्रमार्ण्य च करोति । अनेन प्रेक्षासंयमः प्रमार्जनासं यमश्वोक्तः । एतद्ग्रहणेन तज्जातीयाः शेषा अप्युपेक्षादिसंयमानां ग्रहणं भवति । तथा यः शय्यामुपधिमाहारं च उद्गमोत्पादनैषणाशुद्धं गृह्णाति संयोजनादिमण्डलदोषरहितं च भुङ्क्ते, स्थानशयनाद्यपि कुर्वाणः प्रत्युपेक्ष्य प्रमार्ण्य च करोति । य एतेषु सर्वेष्वपि संयमेषु स्मृति - मान् भवति स संयमकुशलः कथ्यते 'स्मृतिमूलमनुष्ठानमवितथम्' इति वचनात् । पुनश्च - अप्रशस्तानां मनोवाक्काययोगानामपवर्जनम्, शुभानां चैषामभियोजनं करोति । तथा श्रोत्रादीन्द्रियाणां क्रोधादिकषायाणां च निग्रहं करोति । तथा श्रोत्रादीनीन्द्रियाणि तत्तद्विषये नो व्यापारयति, प्राप्तेषु च शुभाशुभेषु तद्विषयेषु शब्दाद्यर्थेषु रागं द्वेषं च न करोति । उदयितुं प्रवृतान् क्रोधादीन् निरुणद्धि. उदयप्राप्तांस्तान् विफलीकरोति । तथा प्राणातिपाताद्याश्रवान् पिदधाति । आर्त्तरौद्रध्यानपरिहारेण धर्म्ये शुक्ले च ध्यानेऽनिगूहितबलवीर्यतया प्रवृत्तो भवति । ततस्त्रिकरणविशुद्धो यो इहलोकाद्याशंसादिविप्रमुक्तत्वात् मनसाऽप्यसंयमान् अभिलाषान् नाभि