SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ७० बृहत्कल्पसू छाया -- कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा यथारात्निकतया कृतिकर्म कर्त्तुम् ॥ १८ ॥ चूर्णी - 'कप' इति । निर्ग्रन्थानां निर्ग्रन्थीनां यथारात्निकतया पर्यायज्येष्ठत्वक्रमेण कृतिकर्म - शास्त्रभाषया शिष्यादिकृतो वन्दनाभ्युत्थानादिसत्कारः, तत् कर्त्तुं कल्पते, नान्यथा ज्येष्ठत्वकनिष्ठत्त्वमर्यादामतिक्रम्येति भावः । कृतिकर्म द्विविधं वन्दनाभ्युत्थानभेदात्, तत्र वन्दनम् आचार्यादियथारात्निकानां प्रातः सायं तेषां दृष्टिपाते कार्यपृच्छादिसमये च यथाविधि वन्दनकं कर्तव्यम्, वन्दनं कृत्वैव कार्यादिपृच्छा कर्त्तव्या, एवं सूत्रार्थतदुभयग्रहणेऽपि वन्दनं कर्तव्यमेवेति । अभ्युत्थानम्–गुरोः समीपागमने, चंक्रमणे, उच्चारादिभूमौ गमनकाले, आसनादुत्थानकाले, इत्याद्यवसरे शिष्येणाभ्युत्थानं कर्तव्यम्, अन्यथा गुरोराशातना, आज्ञाभङ्गादिदोषाश्च समापयन्ते, धर्मस्य विनयमूलत्वेन भगवता प्रतिपादितत्वात् उक्तञ्च – . " धम्मस्स मूलं विणयं वयंति, धम्मो य मूलं खलु सोग्गईए । सा सोग्गई जत्थ अबाया उ, तम्हा निसेव्वो विणओ तयट्ठा " ॥ १ ॥ अयं भावः–धर्मस्य जिनोकस्य श्रुतचारित्रलक्षणस्य मूलं तीर्थकरगणधरादयो विनयं वदन्ति 'धर्मस्य मूलं विनयः' इति, 'मूलं नास्ति कुतः शाखा' इति वचनाद् विनयमन्तरेण तपः संयमाराधनाsपि कथं भवेत् । धर्मो हि सुगव्या मूलम्, सा सुगतिः कथ्यते यत्र अवाधता क्षुत्पिपासारोगशोकादिशारीरमानसानां वाघानामभावः सिद्धिरित्यर्थः स्यात् तस्मात् कारणात् मुनिना प्रथमं विनयो निसेव्यः विनयः समादरणीयः । स च गुरूणां वन्दनाभ्युत्थानसेवाशुश्रूषादिना जायते । अत्रायं भावः- इह निर्ग्रन्थस्य कार्य तावदव्यावाघसुखलक्षणो मोक्षः, तस्य च कारणं सर्वज्ञभाषितः श्रुतचारित्रलक्षणो धर्मः, स च गुरोरभ्युत्थानवन्दनादि रूपविनयलक्षणमुपायमन्तरेण साधयितुं न शक्यते, धर्मस्य विनयमूलत्वात्, अतो विनयेन धर्माराधनं, धर्माराधनेन मोक्ष इति पर म्परया विनयो मोक्षकारणमेवेति मत्वा तदर्थं विनय आसेवितव्य इति ॥ सू० १८ ॥ अत्र विनयमोक्षयोः कार्यकारणभावप्रदर्शनपूर्वकमाह भाष्यकारः - ' कज्जे' इत्यादि । भाष्यम् -- कज्जं च मोक्खो, विणओ य हेऊ, निक्कारणा नत्थिह कज्जसिद्धी । तम्हा उवायं तह कारणं च, ओलंबिउ पावर कज्जसिद्धिं ॥ ९ ॥
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy