________________
चूर्णिभाष्यावचूरी उ० ३ ० १८
यथारात्निक विनय विधिः ६९
चूर्णी -- 'कप्पड़' इति । निर्ग्रन्थानां निर्ग्रन्थीनां वा पूर्वसूत्रोक्तवस्त्रवदेव शय्यासंस्तारकान् तत्र शय्या वसतिः, तस्या यः संस्तारकः शयनयोग्यावकाशलक्षणं स्थानं स शय्यासंस्तारकः, तान् यथाशनिकता पर्यायज्येष्ठतया प्रतिग्रहीतुं समादातुं कल्पते । तस्य चोपाश्रयप्राप्तैः श्रमणैः पूर्वाह्नवेलायामेव ग्रहणं कर्त्तव्यम् ततो यथारात्निकं विभक्तव्यम्, यद्वा शय्या - शरीरप्रमाणा, संस्तारकः - सार्द्धद्विहस्तः, तयोः समाहारे शय्यासंस्तारकम्, तानि, पीठफलकादीनि वा यथारानिकता पर्यायज्येष्ठत्वक्रमेण आचार्य स्थविरबालग्लानादीनां यथायोग्यक्रमेण च ग्रहीतुं कल्पते ॥ सू० १७ ॥
अत्राह गाथाद्वयं भाष्यकारः - 'सयणहाणं' इत्यादि । भाष्यम् -- सयणद्वाणं तिविहं, निव्वायसवायमिस्स भेयाओ । समविसममिसभेया, पुणोवि तिविहं सयणठाणं ॥ ७ ॥ एसु य जं सुहठाणं, रायणियाणं गिलाणमाईणं । आमंतिय तं देज्जा, एसा जिणसासणे मेरा ॥ ८ ॥ छाया -- शयनस्थानं त्रिविधं - निर्वात सवात - मिश्रभेदतः । सम-विषम- मिश्रभेदात् पुनरपि त्रिविधं शयनस्थानम् ॥ ७ ॥ एषु च यत् सुखस्थानं, रात्निकानां ग्लानादीनाम् । आमन्त्र्य तद् दद्यात् एषा जिनशासने मर्यादा ॥ ८ ॥
अवचूरी -- ' सयणद्वाणं' इत्यादि ।
सूत्रे शय्यासंस्तारकशब्देन वसतिगतशयनयोग्यं स्थानं गृहीतम् । तच्च शयनस्थानं - निर्वातं, सवातं, निर्वातसवातं चेति भेदात् त्रिविधं भवति, पुनरपि समं, विषमं समविषममिति भेदात् त्रिविधम् । तत्र शयनस्थानमाचार्येण यद्यस्मै साधवे दीयते तत्तेन मायामदविप्रमुक्तेन ऋजुभावेन ग्रहीतव्यम्, किन्तु एषु पूर्वोक्तेषु षट्सु स्थानेषु यत् सुखस्थानं भवेत् तत् - आचार्य - स्थविर - ग्लानादीनाम् आमन्त्र्य 'यदि भवतां न . समीचीनं शयनस्थानं तर्हि ममेदं गृहाण' इत्यादिसं मानवाक्येन उपनिमन्त्र्य तत् स्वस्य समीचीनं शयनस्थानं यत्तेषां रोचते तद् दद्यात् यतो जिनशासने एषा श्रमणानां मर्यादा वर्तते, भगवता समुपदिष्टत्वात् । अथवा शय्या शरीरप्रमाणा, संस्तारकः सार्द्धद्विहस्तप्रमाणः । अत्रापि कर्कश मृदुकठोर लक्ष्णादिभेदमधिकृत्य पूर्वोक्तो विधिर्बोध्यः ॥ ७-८ ॥
पूर्व शय्या संस्तारकस्य यथारात्निकतया ग्रहणविषयकं सूत्रं प्रोक्तम्, साम्प्रतं शय्यासंस्तारकग्रहणानन्तरं सन्ध्यासमये पूर्णायां पौरुष्यां गुरुप्रदत्तशय्या संस्तारं प्रस्तीर्य तदुपरि समारूढस्य एवं प्रातरुत्थितस्य च कृतिकर्म करणीयं भवेत्, तदपि यथारात्निकतया कर्त्तव्यमिति तद्विधिप्रतिपादकं सूत्रमाह- ' कप्पइ० किइकम्मं ' इत्यादि ॥
सूत्रम् - कप्पइ निग्गंथाण वा निग्गंथीण वा अहारायणियाए किंइकम्मं करिए || सू० १८ ॥
2