________________
वृहत्कल्पसूत्रे दर्शयति-तंजहा' इत्यादि । 'तनहा तयथा तानि यथा-जाङ्गमिकम्-जङ्गमानां गमनशीलानां मेषादीनामिदं जाङ्गमिकम् मेषादिरोमनिष्पन्नम् औणिकमित्यर्थः १, भाङ्गिकम्-भङ्गैः अतस्यादित्वग्भिनिष्पन्नं भाक्षिकम् २,शाणकम् -शगः स्वनामख्यातस्तृगविशेषः, तेन निष्पन्न शाणकं शणसूत्रवस्त्रम् ३, पोतकम्-पोतः कर्पासस्तेन निष्पन्नं पोतकं कार्पासवस्त्रम् ४, तिरीटपट कम्-तिरीटो वृक्षविशेषस्तस्य त्वग्भिनिष्पादितं तिरीटपट्टकम् एतन्नामकं पञ्चमं वस्त्रम् ५। एतानि उपर्युक्तानि पञ्चविधानि वस्त्राणि निम्रन्थनिर्ग्रन्थोनां कन्यते, न तु तद्भिन्नानि क्षौ मदुकूलचीनांशुकादिवस्त्राणि कल्पते । अत्र जङ्गमशब्देन त्रसप्राणिनो गृह्णन्ते तत्कथं त्रसप्राण्यङ्गसमुद्भूतंवस्त्रं कल्पते इति प्रोक्तम् ? तत्राह-जङ्गमा द्विविधाः विकलेन्द्रियाः पञ्चेन्द्रियाच, तत्र विकलेन्द्रियप्राण्यङ्गभूतसूत्रनिर्मितानि क्षौमादिवस्त्राणि न कल्पन्ते प्राणिवधप्रसङ्गात् , अत्र जङ्गमशब्देन पञ्चेन्द्रिया गृह्यन्ते तेषां रोमभिर्निष्पन्न वस्त्रं कल्पते, तेषां परिवर्द्धितरोमकर्तनेन न किमपि दुःखं भवति प्रत्युत तेषां सुखानुभवो भवति ततो जाङ्गमिकशब्देन ऊर्णावस्त्रं बोध्यम् , अत्र प्राणिपीडालेशासंभवात् ॥ सू० २५ ॥
पूर्व वस्त्रग्रहणसूत्रं प्रोक्तम् ,तत्प्रसङ्गात् रजोहरणग्रहणसूत्रमाह-'कप्पई' इत्यादि ।
सूत्रम्--कप्पइ निगंथाण वा निग्गंथीण वा इमाई पंच रयहरणाई धारित्तए वा परिहरित्तए वा, तंजहा--उण्णिए, उहिए, साणए, वच्चाचिप्पए, मुंजचिप्पए नाम पंचमे ॥ सू० २६ ॥
छाया-कल्पते निर्ग्रन्थानां वा निर्ग्रन्थोनां वा इमानि पञ्च रजोहरणानि धारयितुं वा परिहत्तुं वा, तद्यथा-ओणिकम्, औष्ट्रिकम्, शाणकम्, वचाचिप्पकम्, मुजचिप्पक नाम पश्चमम् ॥ सू० २६ ॥
चूर्गी--'कप्पई' इति। निर्ग्रन्थानां वा निर्ग्रन्थीनां वा इमानि अग्रे वक्ष्यमाणानि पञ्च-पञ्चप्रकारकाणि रजोहरणानि-रजो द्विवियं द्रव्यतो भावतश्च, तत्र द्रव्यरजो धूल्यादिकम् , भावरजःअष्टविधकर्म, ततो द्विविधमपि रजो हरतीति रजोहरणम् । तत्र द्रव्यरजोहरणेन आदाननिक्षेपपरिष्ठापनादिकार्ये भूमिगत कुन्थुपिपोलि कादिलवुजन्तुनां निवारणं भवति ततः संयमयोगाः संपन्ना भवन्ति । भावरजोहरणेन कममलशोधिर्जायते, तानि पञ्चप्रकारकाणि कल्पन्ते, तदेव दर्शयतितद्यथा तानीमानि- औणिकं मेषाचूर्णानिष्पन्नम् १, औष्ट्रिकम्-उष्ट्ररोमनिष्पन्नम् २, शाणकम्शणसूत्रनिष्पन्नम् ३, वच्चाचिप्पकम्--बच्चा-दर्भाकारतृणविशेषस्तस्य वल्कलः, तस्य चिप्पकेन कुट्टितेन कुट्टितत्वविशेषेण निष्पन्नं वच्चाचिप्पकम् ४, मुंजचिप्पक-मुनस्य शरस्तम्बस्य चिप्पकेन कुहितेन कुट्टितमुजेन निष्पादितं नाम पञ्चमं रजोहरणम् ५, एतानि पञ्चविधानि रजोहरणानि साधुसाध्वीनां कल्पते नान्यानि कार्यासिकादिसूत्रनिष्पन्नानि, तैः कुन्थुपिपीलिकादीनां सम्यग रक्षणासंभवात् । अत्र वच्चाचिप्पकं मुञ्जचिप्पकं नाम कस्मिंश्चिदेशविशेषे चिप्पकनामको दर्भाकारस्तृणविशेषो भवति, तं च प्रथमं चिप्पित्वा कुट्टयित्वा तदीयं क्षोदं रुतरूपं कृत्वा कर्त्तयति ततः सूत्राणि