________________
चूर्णि भाग्यावरी उ०- २ सू० २५-२६
वस्त्ररजोहरण हृणविधिः ५३
अथ शय्यातरपिण्डविषयान् संगृह्याह भाष्यकारः - ' अनीहडं' इत्यादि । भाष्यम् – अनीहडं नीहडं वा, आइडिया तहेव य । हडिया अंसिया वा, पूयाभत्तं चउव्विहं ॥ २ ॥ सागारिFस संबंधो, जत्थ जारिसतारिसी । साहूणं कप्पए नो तं कप्पे संबंधवज्जियं ॥ ३॥ छाया - अनिहृतं निहृतं वा, आहृतिका तथैव च । निर्हृतिका अंशिका वा, पूज्यभक्तं चतुर्विधम् ॥ २ ॥ सागारिकस्य संबन्धो, यत्र यादृशतादृशः । साधूनां कल्पते नो तत्, कल्पेत सम्बन्धवर्जितम् ॥ ३ ॥
अवचूरी - 'अनहर्ड' इति । अनिर्हृतम् यद् अन्यस्मै वितरणाय अन्यदीयगृहे न नीत शय्यातरगृह एव स्थितं तत् १, निर्हृतं यत् शय्यातरगृहादन्यदीयगृहे प्राप्तम् २, आहृतिका - अन्यस्माद् गृहात् शय्यातरगृहे समागता 'परोसा' इतिलोकप्रसिद्धा प्राभृतिकारूपा २, निर्हृतिका - शय्यातरगृहादन्यदीयगृहे प्रेषिता प्राभृतिका ४, अंशिका शय्यातरसहितद्वित्रिचतुःपञ्चजनानां विभागैः संमिश्रा ५, चतुर्विधं पूज्य भक्तम्, तत्र प्रथमं कलाचार्यादिपूज्यजनमुद्दिश्य संपादितं प्रातिहारिकत्वेन तस्मै प्रदत्तं सागारिकेण दीयमानम् १, द्वितीयं - पूर्वोक्तप्रकारमशनादि सागारिकस्य पूज्येन दीयमानम् २, तृतीयं तादृशमशनादि अप्रातिहारिकत्वेन पूज्याय प्रदत्तं किन्तु तत् सागारिकेण दीयमानम् ३, एतत्त्रयमप्यकल्प्यम् । चथुर्य तादृशमशनादि अप्रातिहारिकत्वेन पूज्याय प्रदत्तं सागारिकं वर्जयित्वा पूज्यहस्तेन दीयमानम् ४, एतत्कल्प्यम् । एषु नवविधेषु अशनादिषु मध्ये यत्र यस्मिन् कस्मिंश्चिदशनादौ सागारिकस्य यादृशतादृशो यः कोऽपि सम्बन्धः स्वत्वविषयो हस्तदानविषयो विभागविषयो वा एतादृशोऽन्यो वा कोऽपि सम्बन्धो भवेत् तदशनादि साधूनां नो कल्पते, किन्तु यत् सम्बन्धवर्जितं - स्वत्वसम्बन्धहस्तदानसम्बन्धविभागसम्बन्धवर्जितं भवेत् तत् साधूनां कल्पेत ॥ २-३॥
पूर्वंमाहारसूत्रं प्रोक्तम्, आहारानन्तरं वस्त्रप्रसङ्ग इति वस्त्रग्रहणसूत्रमाह - ' कप्पइ. पंच वत्थाई '
इत्यादि ।
सूत्रम् - कप्पइ निग्गंथाण वा निग्गंथीण वा इमाई पंच वत्थाई धारितए वा परिहरित्तए वा तं जहा- जंगिए भंगिए सागए पोत्तए तिरीडपट्टे नामं पंचमे ॥ सू० २५ ॥ छाया -कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा इमानि पञ्च वस्त्राणि धारयितुं वा परिहर्तुं वा तद्यथा - जाङ्गमिकम्, भाङ्गिकम्, शाणकम् पोतकम् तिरीटपट्टकं नाम पञ्चमम् ॥ सू० २५ ॥
चूर्णी - 'कप' इति । निर्ग्रन्थानां वा निर्ग्रन्थीनां वा इमानि वश्यमाणानि पञ्च पञ्चप्रकारकाणि वस्त्राणि धारयितुं वा स्वनिश्रायां स्थापयितुं, तथा परिहर्तुं वा उपभोक्तुं कल्पते, तान्येव