SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ र्णिमाष्यावरी उ०-२ सू० १३-१८ शय्यातरपिण्डग्रहणाग्रहणविधिः ७ सूत्रम्-एगे सागारिए पारिहारिए, दो तिन्नि चत्तारि पंच सागारिया पारिहारिया, एगं तत्थ कप्पागं ठवित्ता अवसेसे निविसेना ।। सू०१३ ।। छाया-एकः सागारिकः पारिहारिकः द्वौ त्रयः चत्वारः पंच सागारिकाः, एक तत्र कल्पकं कृत्वा शेषान् निविंशेत् ॥ सू० १३ ॥ चूर्णी- 'एगे' इति । सागारिकः अगारेण गृहेण सहितः सागारः, स एव सागारिक: गृहस्वामी शय्यातर इत्यर्थः । शय्यातरः इति कोऽर्थः ? शय्यां साधुभ्यो वसतिं दत्त्वा तरति संसारसागरं पारयति यः स शय्यातरः, अथवा शय्यायाः-वसतेर्दानेन भवपरंपरारूपं संसारप्रवाहं तरति योऽसौ शय्यातरः कथ्यते । अत्र शिष्यप्रश्नः-स एकः सागारिकः पारिहारिकः परिहार परित्यागं अर्हतीति पारिहारिकः भिक्षादिग्रहणपरिहारयोग्यो भवति, तथैव द्वौ त्रयः चत्वारः पञ्च वाऽपि पारिहारिका भिक्षादिपरिहरणयोग्या भवन्ति किम् ! आचार्यस्तत्र विधिमाह-- य उपाश्रयो दायादभागमिश्रो भवेत् , अथवा बहुजनसाधारणं देवकुलादिकं वा भवेत् , एवं यस्य स्थानस्य द्वयादयः स्वामिनो भवेयुस्तव तेषु मध्ये एकं स्वामिनं कल्पकं शय्यातरकल्पयोग्यं शय्यातरत्वेन स्थापयित्वा तेष्वेकं शय्यातरं कृत्वा अवशेषान् अवशिष्टान् तदितरान् निधिसेज्जा-निर्विशेत् विसर्जयेत् , शय्यातरत्वेन न गणयेत् । अथवा अवशेषान् शेषाणां गृहेषु इत्यर्थः 'निविसेज्जा' निर्विशेत् प्रविशेत् अहाराद्यर्थ तेषां गृहेषु अनुप्रविशेदिति भावः ॥ सू० १३ ॥ पूर्वसूत्रे एकः शय्यातरः कर्त्तव्यः, इति प्रोक्तम् , साम्प्रतमत्रत आरभ्य शय्यातरपिण्डस्य निर्ग्रन्थनिर्ग्रन्थीसमुच्चयेन ग्रहणविषये विधि प्रतिपादयितुमाह-'नोकप्पइ० सागारियपिंडं' इत्यादि । सूत्रम्--नो कप्पइ निग्गंथाण वा निग्गंथीण वा सागारियपिंडं बहिया अनीहड़ असंसर्ट वा संसटुं वा पडिग्गाहित्तए ॥ सू०१४ ॥ छाया-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा सागारिकपिण्डं बहिः अनिहतं असंसृष्टं वा संसृष्टं वा प्रतिग्रहीतुम् ॥ सू० १४ ॥ चूर्गी ---'नो कप्पई' इति । निर्ग्रन्थानां वा निर्ग्रन्थीनां वा द्वयानामपि सागारिकपिण्डं सागारिकस्य-यो गृहस्थः शय्यातरत्वेन स्थापितस्तस्य पिण्डम्-अशनादिकं, यः, पिण्डः बहिः शय्यातरगृहाद् बहिः अनिर्हतः अनिस्सृतः अन्यगृहे न नीतः शय्यातरगृहे एव स्थितः सः असंसृष्टोवा शय्यातरेतरपिण्डेन अमिलितो वा, अथवा संसृष्टो वा मिलितो वा भवेत् तं तादृशं शय्यातरपिण्डं नो कल्पते प्रतिग्रहीतुम्, शय्यातरपिण्डग्रहणस्य शास्त्रे सर्वत्र निषिद्धत्वात् ॥ सू०१४ ॥ अथ शय्यातरपिण्डस्यान्यनिषेधविधिमाह-'नो कप्पई' इत्यादि । सूत्रम्-नो कप्पइ निग्गंधाण वा निग्गंथीण वा सागारियपिंडं बहिया नीहडं असंसठं पडिगाहित्तए । कप्पई निग्गंथाण वा निग्गंथीण वा सागारियपिंडं बहिया नीहडं संसह पडिगाहित्तए ॥ सू०१५॥
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy