SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ યુદ્ बृहत्कल्पसूत्रे पूर्वं निर्ग्रन्थनिर्ग्रन्थीनां सामान्यतः सदोषा उपाश्रयाः प्रतिपादिताः, साम्प्रतं केवलं निर्ग्रन्थीनां शेषकालवासे सदोषस्थानानि निषेधयितुमाह - 'नो कप्पइ० अहे आगमणगिहंसि' इत्यादि ॥ सूत्रम् - नो कप्पर निग्रगंथीण अहे आगमण गिसि वा वियडगिहंसि वा सीमूलंसि वा रुक्खमूलंसि वा अभावासियंसि वा बन्थए | सू०११ ॥ छाया -नो कल्पते निर्ग्रन्थीनां अधः आगमनगृहे वा विवृतगृहे वा, वंशीमूले वा वृक्षमूले वा अभ्रावकाशिके वा वस्तुम् ॥ सू० ११ ॥ ऽपि चूर्णी - 'नो कप्पइ' इति । निर्ग्रन्थीनां 'अघः' शब्दोऽत्र मध्यार्थकः 'अधः' इत्यर्थको वा; तेन ‘अबआगमनगृहे' इति आगमनगृहमध्ये इत्यर्थः, अधः - शब्दस्य सर्वत्र सम्बन्धः - कार्यः, तत्र आगमनगृहे पथिकादीनां ग्रामाद् ग्रामान्तरे गमनागमनं कुर्वतां निवासार्थं यद् गृहं तस्मिन् पथिकनिवासस्थाने इत्यर्थः, अधोविवृतगृहे वा विवृतम् चतुर्दिक्षु आवरणवर्जितम् उपर्याच्छादितं यद् गृहं तद् विवृतगृहं तस्मिन् तन्मध्ये अधोवंशीमूले वा वंशीमूलं तावद् गृहाद्वहिर्वंशदलनिर्मितं गृहम् तस्मिन् गृहाद्बहिः, प्राघूर्णकादि सर्वसाधारणजनोपवेशनस्थानमध्ये इत्यर्थः, अधोवृक्षमूले वा वटपिप्पलादिवृक्षतले, अभ्रावकाशिके- अभ्रस्य आकाशस्य अवकाशः प्रचुरतया यत्र तत् अभ्रावकाशिकं तस्मिन् अल्पाच्छादिताधिकानाच्छादितगृहमध्ये आकाशबहुलस्थानमध्ये इत्यर्थः एतादृशे गृहे साध्वीनां वस्तुं नो कल्पते, तस्य सागारिकनिश्राराहित्यात् सर्वसाधारणजनानां गमनागमनेनोच्चारप्रस्रवणादिपरिष्ठापने आहारादिकरणे च लोकानां दृष्टिपाता - विभावाद, ब्रोशरीरत्वेन ब्रह्मव्रते उपसर्गसंभवाच्चेति ॥ सू० ११ ॥ पूर्वं निर्ग्रन्थीनामागमनगृहादिषु वासो निषिद्धः, साम्प्रतं निर्ग्रन्थानामत्र कल्पते इति बद्विषये निर्ग्रन्थसूत्रमाह- 'कप्पर' इत्यादि || सूत्रम् -- कप्पर निग्गंथाणं आहे आगमण गिहंसि वा वियडगिहंसि वा सीमूलंसि वा रुक्खमूलसि वा अन्भावगासियंसि वा वत्थए । ०१२ ॥ छाया – कल्पते निर्ग्रन्थार्ना अधः आगमनगृहे वा विवृतगृहे वा वंशीभूले वा वृक्षमूले वा अभ्रावकाशिके वा वस्तुम् ॥ सू०१२ ॥ चूर्णो – ' कप्पड़' इति । पूर्वोक्तेषु आगमनगृहादिषु निर्ग्रन्यानां कल्पते, इति सूत्रार्थः । पुरुषशरीरत्वेन साधूनां तदोषानापातात् । आपवादिकमिदं सूत्रम् यत् अन्योपाश्रयाभावेऽल्पकाकल्पते, नतु शेषकाले मासकल्पं यावत् चातुर्मासं यावद्वेति भावः ॥ सू० १२ ॥ पूर्व निर्ग्रन्थानामागमनगृहादिषु वासो विहितः, स च शय्यातरमाश्रित्य भवतीति तत्प्रसङ्गात् शय्यातरवश्यतां प्रस्तौति, तत्र प्रथमम् अनेकशय्यातरेषु एकं शय्यातरं कुर्यादिति प्रतिपादयितुमाह - 'एगे' इत्यादि ।
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy