________________
चूर्णिभाष्यावचूरी उ. ५ सू० ३४-३९ निर्ग्रन्थीनां स्थाननिषीदनादिमर्यादा १३५
छाया--नो कल्पते निग्रन्थीनाम् आकुञ्चनपट्टकं धारयितुं वा परिहत्तुं वा सू०३४ः।
चूर्णी-'नो कप्पई' इति । नो कल्पते निर्ग्रन्थीनाम् आकुश्चनपट्टकं, आकुश्चनं-संकोचनम् अधःशरीरस्य संकोचनं तन्निमित्तं यत् पट्टकं वस्त्रम् पर्यस्तिकापट्टकमित्यर्थः, पर्यस्तिकाकरणनिमित्तं यत् पट्टकं वस्त्रं तत् निर्ग्रन्थीनां धारयितुं पार्श्वे स्थापयितुम् , परिहर्तुम्-परिभोक्तुं न कल्पते । पर्यस्तिकां कुर्वाणां साध्वीं दृष्ट्वा लोको वदति-अहो कीदृशोऽस्या गर्वः या पर्यस्तिका बद्ध्वा समुपविशति । पर्यस्तिकां कुर्वाणा अपावृताऽपि भवेत् तेन ब्रह्मचर्यव्रतभङ्गसंभवः लोकापवादो वा भवेत् । आकुञ्चनपट्टकं तासाम् अनुपधिः, य उपकारे वर्त्तते स उपधिरुच्यते, अन्यः अनुपधिः, तच्च तासामुपकारे नायातीति कृत्वा अनुपधिः । अनुपधिभूतस्योपकरणस्य धारणे तीर्थकृदाज्ञाभङ्गः । तत्प्रत्युपेक्षणादौ सूत्रार्थस्वाध्यायहानिर्भवेत् तस्मात् आकुश्चनपट्टकं साध्वीनां नानुज्ञातम् ॥ सू० ३४ ॥
पूर्व निर्ग्रन्थीनामाकुञ्चनपट्टकं निषिद्धम् , तत् निर्ग्रन्थानां कल्पते इति निम्रन्थसूत्रमाह"कप्पइ' इत्यादि ।
सूत्रम्-कप्पइ निग्गंथाणं आकुंचणपट्टगंधारित्तए वा परिहरित्तए वा ॥सू०३५॥ छाया- कल्पते निर्ग्रन्थानाम् आकुञ्चनपट्टकं धारयितुं वा परिहर्त वा । सु०३५ ।
चूर्णी—'कप्पइ' इति । कल्पते निम्रन्थानां श्रमणानाम् आकुञ्चनपट्टकं पर्यस्तिकापट्टकं पर्यस्तिकाकरणाथै वस्त्रं धारयितु-संग्रहीतुं परिहन्तुं परिभोक्तुं कल्पते, श्रमणानां पूर्वोक्तदोषानापत्तेः, किन्तु पर्यायज्येष्ठपुरत आकुञ्जनपट्टासनेन स्थातुम् न कल्पते ॥ सू० ३५ ॥
पूर्व निर्ग्रन्थीनां निर्ग्रन्थानां पर्यस्तिकापट्टधारणे निषेधो विधिश्च प्रदर्शितः, सम्प्रति उभयेषां सावष्टम्भासने उपवेशनस्य निषेधं विधि च प्रदर्शयितुमाह-'नो कप्पई' 'कप्पइ' इत्यादि ।
सूत्रम्-नो कप्पइ निग्गंथीणं सावस्सयंसि आसणंसि चिट्ठित्तए वा निसीइत्तए वा ॥ सू० ३६॥ कप्पइ निग्गंथाणं सावस्सयंसि आसणंसि चिट्ठित्तए वा निसीइत्तए वा ॥ सू० ३७॥
छाया-नो कल्पते निग्रन्थीनां सावश्रये आसने स्थातुं वा निषत्तुं वा ॥ सू० ३६।। कल्पते निर्ग्रन्थानां सावश्रये आसने स्थातुं वा निषत्तुं वा ॥ सू०॥ ३७॥
चूणी-'नो कप्पई' इति । नो कल्पते निर्ग्रन्थीनां सावश्रये-सावश्रयं नाम यस्यासनस्य पृष्ठतोऽवष्टम्भो भवति तादृशे सावष्टम्भे आसने स्थातुम् ऊर्ध्वस्थानेन स्थितिं कर्तुम् , निषत्तुं-तदुपरि उपवेष्टुं न कल्पते इति सम्बन्धः, एतादृशासने उपविष्टानां श्रमणीनां पूर्वोक्तो गर्वः सिद्धयति, स्त्रीशरीरत्वेन तरुणानां मोहजनकत्वं वा भवति तस्मात् निर्ग्रन्थीनां सावष्टम्भासने