SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ ક बृहत्कल्पसूत्रे - साहस्तिशुण्डिका ३, पर्यङ्का यत्र पर्यङ्काकृत्या उपविश्यते सा पर्यङ्का निषया ४, अर्द्धपर्यङ्का यस्यामेकं जानुं समुत्थाप्य उपविश्यते सा अर्द्धपल्यङ्का निषद्या प्रोच्यते ५ । " एवंविधया पञ्चप्रकारया निषद्यया चरतीति नैषधि की तस्याः, एतादृशनिषदनस्थानमा - श्रित्य उपवेशनं साध्वीनां नोचितमिति ॥ सू० २५ ॥ एवम् उत्कुटुकासनिकायाः उत्कुटुकं - भूमिस्थापित चरणतलद्वयरूपं 'उकडु' इति भाषाप्रसिद्धमासनम् उत्कुटुकासनं तद् विद्यते यस्याः सा उत्कुटुकासनिक, तस्या उत्कुटुकासनेन समुपविष्टाया निर्ग्रन्ध्या भवितुं नो कल्पते, उत्कुटुकासनेन निर्ग्रन्ध्या नोपवेष्टव्यम् || सू० २६ ।। एवं वीरासनिकाया भवितुं नो कल्पते, वीरासनेन उपवेशनं साध्वीनां नोचित्तम् । वीरासनं नाम सिंहासने उपविष्टो भूमौ न्यस्तपादस्तिष्ठति, तदवस्थायां तत् सिंहासनं तदधोभागात् निस्सार्यते तदापि तदाकारेणैव अवस्थानं यत्र भवति तदासनं वीरासनं प्रोच्यते, तद् यस्या अस्तीति वीरासनिका, तस्या वीरासनिकाया भवितुं निर्ग्रन्थ्या नो कल्पते ।। सू० २७ ॥ एवं दण्डासनिकाया निर्ग्रन्ध्या भवितुं नो कल्पते । दण्डः यष्टिः, तद् दीर्घमायतं पादप्रसारणेन भवति तद् आसनं दण्डासनं तद् यस्या अस्ति सा दण्डासनिका तस्या दण्डासनिकाया भवितुम् अवस्थातुं निर्ग्रन्थ्या न कल्पते ॥ सू० २८ ॥ एवं लकुटासनिकायाः, लकुटं कुब्जकाष्ठं तद्वत् कुब्जतया मस्तकपाष्णिकानां भुवि लगनेन पृष्ठस्य चालगनेन शयनम्, अथवा कुब्जीभूय शयनम्, एतादृशमासनं यस्याः सा लकुटासनिका, तस्या लकुटासनिकाया निर्ग्रन्ध्या भवितुं नो कल्पते ॥ सू० २९ ।। एवं 'ओमंथियाए इति अवाङ्मुख्याः अवाङ् अधो मुखं यस्याः सा अवाङ्मुखी तस्या अधोमुखीभूताया भवितुम् अवस्थातुं निर्ग्रन्ध्या नो कल्पते ॥ सू० ३० ॥ एवम् एकपार्श्विकायाः - एकपार्श्वेन शायिन्याः तथाविधाभिग्रहविशेषेण शयितायाः साध्व्या भवितुं नो कल्पते ॥ सू० ३१ ॥ एवम् उत्तानासनिकायाः, उत्तानम् ऊर्ध्वमुखीभूय शयनम्, एतादृशमासनं यस्या सा उत्तानासनिका, तस्या उत्तानासनिकाया भवितुं साध्या नो कल्पते ।। सू० ३२ ॥ एवम् आम्रकुब्जिकायाः - आम्राकारेण कुब्जीभूय स्थिताया निर्प्रन्ध्या भवितुं नो कल्पते, यत्र मस्तकपादद्वयेन भूमिं स्पृशति मध्यशरीरमूर्ध्वं क्रियते तदासनम् आम्रकुब्जासनं प्रोध्यते, तदासनेन स्थातु साध्व्या नोचितमिति भावः, प्रागुक्तयुक्तेः । एते एकादशसूत्रोक्ताः सर्वेऽपि अभिग्रहविशेषा निर्ग्रन्थीनां प्रतिषिद्धाः || सू० ३३ ॥ पूर्व निर्मन्थीनां ब्रह्मचर्यव्रतरक्षणार्थमकल्पया अभिग्रहविशेषाः प्रतिपादिताः सम्प्रति तद्रक्षणार्थमेव निर्ग्रन्थीनाम् आकुञ्चनपट्टादयो दारुकदण्डकान्ता न कल्पन्ते इति प्रतिपादयितुं प्रथमं तासाम् आकुञ्चनपट्टकं प्रतिषेधितुमाह- 'नो कप्पड़' इत्यादि । सूत्रम्-नो कप्पइ निमगंथीणं आकुंचणपट्टगं धारित्तए वा परिहरितए वा ॥ सू० ३४ ॥
SR No.006363
Book TitleAgam 25 Chhed 02 Bruhatkalpa Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages210
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_bruhatkalpa
File Size30 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy