________________
चूणि भाज्यावरी उ०-५ सू० ९-११ रात्रौ-उद्गालगिलनप्रायश्चित्तविधिः १२५ नास्तं गतो वा इत्येवं निश्चयवान् सन् अशनं वा ४ अशनादिचतुर्विधमाहारं प्रतिगृह्य तमाहारमाहरन् , इत्यादि शेषं सर्व पूर्वसूत्रवदेव व्याख्येयम् । सू० ८-३ ॥
पूर्वं असंस्तृतस्य निर्विचिकित्सितस्य प्रायश्चित्तमुक्तम् , सम्प्रति असंस्तृतस्यैव विचिकित्सासंपन्नस्य प्रायश्चित्तमाह- 'भिक्खू य' इत्यादि ।
सूत्रम्--भिक्खू य उग्गयवित्तिए अणथमियसंकप्पे असंथडिए वितिगिच्छासमावन्ने असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहित्ता आहारं आहारेमाणे जाव अन्नेसिं वा दलमाणे राइभोयणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहार हाणं अणुग्घाइयं ॥ सू० ९-४॥
छाया--भिक्षुश्च उद्गतवृत्तिकः अनस्तमितसंकल्पः असंस्तृतो विचिकित्सासमापन्नः अशनं वा पान खाद्यं वा स्वाद्यं वा प्रतिगृह्या आहारं आहरन् यावत् अन्येभ्यो वा ददानः रात्रिभोजनप्रतिसेवनप्राप्तः आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्घातिकम् ॥ सू० ९-४ ॥ ___चूर्णी--'भिक्खू य' इति । भिक्षुश्च उद्गतवृत्तिकः अनस्तमितसंकल्पः असंस्तृतः असमर्थः-ग्लानो मासक्षपकः अध्वखिन्नो वा विचिकित्सासमापन्नः-सूर्यस्य उदयाऽस्तमितविषयकशङ्कासम्पन्नः अशनं वा ४ अशनादिचतुर्विधमाहारं प्रतिगृह्य तमाहारम् आहरन् , इत्यादि शेषं सर्वम् असंस्तृतस्य निर्विचिकित्सासूत्रवद् व्याख्येयमिति ।
अत्रेदमवधेयम्-प्रथमं सूत्रम्-निर्विचिकित्सं-संशयरहितं संस्तृतं-समर्थ श्रमणमधिकृत्य प्रतिपादितम् १ । द्वितीय सूत्रम्-विचिकित्सासमापन्नं-संशययुकं संस्तृतं-समर्थ श्रमणमधिकृत्य प्रोक्तम् २ । तृतीयं सूत्रम्-असंस्तृतम् -असमर्थ निर्विचिकित्सं-संशयरहितं श्रमणमधिकृत्य प्ररूपितम् ३ । चतुर्थे सूत्रम्--असंस्कृतम्--असमये विचिकित्सासमापन्नं-संशयापन्नं श्रमणमधिकृत्याभिहितम् ४ । इति चत्वारि सूत्राणि व्याख्यातानि ॥ सू० ९-४ ॥
पूर्व श्रमणानां रात्रिभोजनप्रतिसेवनप्राप्तौ प्रायश्चित्तं प्रतिपादितम् , सम्प्रति, रात्रिभोजनप्रस्तावादेव रात्रौ समागतोनालस्य गिलने प्रायश्चित्तं प्रतिपादयति-'इह खलु' इत्यादि ।
सूत्रम्-इह खलु निग्गंथस्स वा निग्गंथीए वा राओ वा वियाले वा सपाणे सभोयणे उग्गाले आगच्छेजा, तं विगिंचमाणे वा विसोहेमाणे वा नो अइक्कमइ, तं उग्गिलित्ता पच्चोगिलमाणे राइभोयणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारहाणं अणुग्घाइयं ॥ सू० १० ॥
___ छाया--इह खलु निर्ग्रन्थस्य वा निर्ग्रन्थ्या वा रात्रौ वा विकाले वा सपानः सभोजनः उद्गालः आगच्छेत् तं विविञ्चन् वा विशोधयन् वा नो अतिक्रामति, तम् उद्गीर्य प्रत्यवगिलन् रात्रिभोजनप्रतिसेवनप्राप्त आपद्यते चातुर्मासिकं परिहारस्थानम् अनु. द्घातिकम् ॥ सू० १०॥