________________
पञ्चमोद्देशकः प्रारभ्यतेव्याख्यातश्चतुर्थो देशकः, सम्प्रति पञ्चमः प्रारभ्यते, तत्र चतुर्थो देशकान्तिमसूत्रेण पञ्चमोदेशकादिस्त्रेण कः सम्बन्धः ? इत्यत्राह भाष्यकारः-'तणमाइ०' इत्यादि । भाष्यम्--तणमाइवसहिवासे, विही निसेहो य अंतिमे वुत्तो ।
होइ जइ तत्थ देवो, देवहियारोऽत्थ भणियव्यो ॥ १॥ छाया-तृणादिवसतिवासे, विधिनिषेधश्च अन्तिमे प्रोक्तः । . भवति यदि तत्र देवः, देवाधिकारोऽत्र भणितव्यः ॥१॥
अवचूरी-'तणमाइ' इति । अन्तिमे चतुथोद्देशकस्यान्तिमे भागे सूत्रचतुष्टये तृणादिवसतिवासे तृणादिमयोपाश्रयवासे विधिनिषेधश्च प्रोक्तः । तत्र तादृश्यां वसतौ यदि देवः गुह्यकादिदेवो देवी वा भवति-वसति अतः अत्र पञ्चमोद्देशकस्यादिमे सूत्रचतुष्टये देवाधिकारो भणितव्यः-कथयितव्यो भवतीति ॥ १ ॥
___ अनेन सम्बन्धेन सम्प्रति तृणादिमयवसतिवासे कदाचित्-देवदेवीनिवासप्रसङ्गात् निर्ग्रन्थमधिकृत्य देवकृतोपसर्गविषयकमिदमादिमं सूत्रमाह-'देवे य इत्थिरूवं' इत्यादि ।
सूत्रम्-देवे य इत्थिरूवं विउवित्ता निग्गंथं परिग्गाहिज्जा, तं च निग्गंथे साइज्जेज्जा, मेहुणपडिसेवणपत्ते आवज्जइ चाउम्मासियं परिहारहाणं अणुग्धाइयं ॥ सू०१॥
___ छाया-देवश्च स्त्रीरूपं विकुळ निर्ग्रन्थ प्रतिगृह्णीयात् , तच निर्ग्रन्थः स्वादयेत् मैथुनप्रतिसेवनप्राप्त आपद्यते चातुर्मासिकं परिहारस्थानम् अनुद्धातिकम् ॥ २०१॥
___ चूर्णी-'देवे य' इति । तृणादिमयोपाश्रये वर्तमानः कश्चित् देवः-व्यन्तरादिः स्त्रीरूपं-रमणीयस्त्रीरूपं विकुर्व्य स्वस्य विकुर्वणाशक्त्या निष्पाद्य यदि निम्रन्थं-तत्रस्थितं साधु प्रतिगृह्णीयात् स्वशरीरभुजादिभिरालिङ्गेत् तच्च प्रतिग्रहणम्-स्त्र्यालिङ्गनं यदि निम्रन्थः श्रमण: अनुमोदयेत् 'सुन्दरमिदं ललनालिङ्गनम्' इत्येवम् अनुमोदयेत् तदा स निर्ग्रन्थः मैथुनप्रतिसेवनप्राप्तः अनासेवितमैथुनोऽपि मैथुनसेवनदोषापन्नः सन् आपद्यते-प्राप्नोति, किमित्याह-चातुमासिकं परिहारस्थानम् अनुद्घातिकं चतुर्गुरुकं प्रायश्चित्तम् ॥ सू० १ ॥
पूर्व निग्रन्थमाश्रित्य स्त्रीरूपेण देवकृतोपसर्गः प्रतिपादितः, सम्प्रति निम्रन्थीमाश्रित्य पुरुषरूपेण देवकृतोपसर्ग प्रतिपादयितुमाह-'देवे य पुरिसरूवं' इत्यादि ।
सूत्रम्-देवे य पुरिसरूवं विउव्वित्ता निग्गंथि पडिग्गाहिज्जा, तं च निग्गंथी साइज्जेज्जा मेहुणपडिसेवणपत्ता आवज्जइ चाउम्मासियं अणुग्घाइयं ॥ सू० २॥
___ छाया-देवश्च पुरुषरूपं विकुयं निर्ग्रन्थीं प्रतिगृह्णीयात् , तच्च निर्ग्रन्थी स्वादयेत् मैथुनप्रतिसेवनप्राप्ता आपद्यते चातुर्मासिकं अनुदातिकम् ॥ सू० २ ॥