________________
चूर्णिमायावचूरी उ०४ सू० ३७
चतुर्थीद्देशकसमाप्तिः ११९ च्छादनतृणादि भवेत् तादृशेषु तृणादिषु सत्सु नो कल्पते निग्रन्थानां निर्ग्रन्थीनां तथाप्रकारे उपाश्रये वर्षावासे चातुर्मास्यरूपे काले वस्तुं न कल्पते इति पूर्वेण सम्बन्धः ॥ सू०३६॥
___ पूर्वम् उपाश्रयविशेषे वर्षावासे वासनिषेधः प्रतिपादितः, सम्प्रति तद्वैपरीत्येन उपाश्रयविशेषे वर्षावासे वासविधिमाह-'से तणेसु वा' इत्यादि ।
सूत्रम्-से तणेसु वा जाव संताणएसु वा उप्पि रयणिमुक्कमउडेसु कप्पइ निग्गंधाण वा निग्गंथीण वा तहप्पगारे उवस्सए वासावासं वत्थए ॥ सू० ३७॥
॥ कप्पस्स चउत्थो उद्देसो समत्तो ॥४॥ छाया-अथ तृणेषु वा यावत् सन्तानकेषु उपरि रत्निमुक्तमुकुटेषु कल्पते निम्रन्थानां वा निग्रन्थीनां पा तथाप्रकारे उपाश्रये वर्षावासे वस्तुम् ॥ सू० ॥ ३७॥
. कल्पस्य चतुर्थ उदेशः समाप्तः ॥४॥ चूर्णी-'से तणेसु वा' इति । अथ पूर्वोक्तस्वरूपेषु तृणादिषु अण्डादि वर्जितेषु सत्सु पुनः 'उप्पिरयणिमुक्कमउडेसु' उपरि रत्निमुक्तमुकुटेषु, अत्रापि पञ्चम्यर्थे सप्तमी बोध्या तेन रनिमुक्तमुकुटात् पूर्वोक्तस्वरूपाद् उपरि आच्छादनतृणादि भवेत् कल्पते तथाविधे उपाश्रये निर्ग्रन्थानां वा निम्रन्थीनां वा वर्षावासे वस्तुमिति ॥ सू० ३७ ॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनाचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि- जैनाचार्य-जैनधर्म-दिवाकर-पूज्यश्री-घासीलालव्रतिविरचिताया "बृहत्कल्पसूत्रस्य"
चूर्णि-भाष्या-ऽवचूरीरूपायां व्याख्यायां
चतुथोद्देशकः समाप्तः ॥४॥