________________
बुर्णिभाष्यावचूरी उ०४ २० ३० अधिकरणानुपशमेभिक्षाग्रहणादिनिषेधः १११ जालम् , एतैर्वर्जिते अचित्ते स्थण्डिले भूप्रदेशे परिष्ठापयितुम् इच्छेदिति पूर्वेण सम्बन्धः, तदा अस्ति च अत्र अस्मिन् निवासस्थाने किञ्चित् किमपि सागारिकसत्कम् गृहस्थसम्बन्धि अचित्तम् उपकरणजातं वहनकाष्ठं तदपि परिहरणार्ह-परिभोगयोग्यं मृतदेहवहनसाधनरूपं भवेत्तदा कल्पते तस्य भिक्षोः सागारिककृतं 'सागारिसत्कमेवेदं काष्ठं नास्मत्सत्कम्' इत्येवं बुद्धया प्रातिहारिकं तत् काष्ठं गृहीत्वा तत् शरीरकं भिक्षोर्मृतदेहम् एकान्ते विजने बहुप्रासुके पूर्वोक्तस्वरूपे एकेन्द्रियद्वीन्द्रियादिजीवरहिते स्थण्डिले भूप्रदेशे परिष्ठाप्य विसृज्य तत् बहनकाष्ठं तत्रैव यस्मात् स्थानात् येन प्रकारेण ऊर्ध्वाधस्तिर्यग्रूपेण गृहीतं भवेत् तस्मिन् स्थाने तेनैव रूपेण स्थापयितव्यं भवेत् यत्रतो यथा गृहीतं तत्र तथैव स्थापयेदिति भावः ॥ सू० २९॥
पूर्व कालधर्मप्राप्तस्य भिक्षोः परिष्ठापनविधिरुक्तः, सम्प्रति-कालधर्मश्च प्राणिमात्रस्यावश्यम्भावीति विचार्य मुनिना परलोकाहितकरमधिकरणं केनाऽपि सह न विधातव्यमित्यधिकरणसूत्रमाह-'भिक्खू य अहिंगरणं कटु' इत्यादि ।
सूत्रम् -भिक्खू य अहिगरणं कटु तं अहिगरणं अविओसवित्ता नो से कप्पइ गाहावइकुलं भत्ताए वा पाणाए वा णिक्खमित्तए वा पविसित्तए वा, बहिया वियारभूमि वा विहारभूमि वा णिक्खमित्तए वा पविसित्तए वा, गामाणुगामं वा दुइज्जित्तए, गणाओ गणं संकमित्तए, वासावासं वा वथए, जत्थेव अप्पणो आयरियं उवज्झायं पासेज्जा, बहुस्सुयं बभागमं तस्संतिए आलोइज्जा पडिक्कमिज्जा निदिज्जा गरहिज्जा विउद्देज्जा विसोहेज्जा अकरणाए अब्भुद्विज्जा अहारिहं तवोकम्मं पायच्छित पडिवज्जेज्जा, से य सुरण पट्टविए आइयत्वे सिया, से य सुएण नो पट्टविए नो आइ. यव्वे सिया, से य सुएण पट्टविज्जमाणं नो आइयइ से निज्जूहियत्वे सिया ॥ सू०३० ॥
छाया---भिक्षुश्च अधिकरणं कृत्वा तद् अधिकरणम् अव्यवशमय्य नो तस्य कल्पते गाथापतिकुलं भक्ताय वा पानाय वा निष्क्रमितुं वा प्रवेष्टुवा, बर्हिविचारभूमि वा विहारभूमि वा निष्क्रमितुं वा प्रवेष्टुं वा, ग्रामानुग्राम द्रोतुम् , गणाद् गणं संक्रमितुम्, वर्षावासं वस्तुम्, यत्रैव आत्मन आचार्य वा उपाध्यायं वा पश्येत् बहुश्रुतं बह्वागमं तस्यान्तिके आलोचयेत् प्रतिक्रामेत् निन्द्यात् गर्हेत व्यावर्तेत विशोधयेत् अकरणतया अभ्युत्तिष्ठेत् यथार्ह तपःकर्म प्रायश्चित्तं प्रतिपद्येत, तच्च श्रुतेन प्रस्थापितम् आदातव्यं स्यात् तच्च श्रुतेन नो प्रस्थापितं नो आदातव्यं स्यात् , स च श्रुतेन प्रस्थाप्यमानं नो आददाति स हितव्यः स्यात् ॥सू० ३०॥
चूर्णी- 'भिक्खू य अहिगरणं कटु' इति । भिक्षुश्च साधुः चकाराद उपाध्यायादिश्च अधिकरणं कलहं कृत्वा तत्-केनापि कारणेन यत् संजातं तद् अधिकरणं-कलहम् अव्यवशमय्यउपशान्तमकृत्वा परस्परमक्षामयित्वा नो-नैव तस्य कल्पते गाथापतिकुलं-गृहस्थगृहं भक्ताय वा