________________
बृहत्कल्पसूत्रे
छाया - आचार्योपाध्यायश्च इच्छेत् अन्यम् आचार्योपाध्यायम् उद्देशयितुम् नो तस्य कल्पते आचार्योपाध्यायत्वम् अनिक्षिप्य अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, कल्पते तस्य आचार्योपाध्यायत्वं निक्षिप्य अन्यम् आचायोंपाध्यायम् उद्देशयितुम्, नो तस्य कल्पते अनपृच्छ्य आचार्य वा यावत् गणावच्छेदकं वा अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, कल्पते तस्य आपृच्छ्य आचार्य वा यावत् गणावच्छेदकं वा अन्यम् आचायोपाध्यायम् उद्देशयितुम् । तेच तस्य वितरेयुः एवं तस्य कल्पते अन्यम् आचायोपाध्यायम् उद्देशयितुम्, ते च तस्य नो वितरेयुः एवं तस्य नो कल्पते अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, नो तस्य कल्पते तेषां कारणम् अदोपयित्वा अन्यम् आचार्योपाध्यायम् उद्देशयितुम्, कल्पते तस्य तेषां कारणं दीपयित्वा अन्यम् आचार्योपाध्यायम् उद्देशयितुम् ॥ सु० २८ ॥
११०
चूर्णी – 'आयरियउवज्झाए य' इति । इदं सर्वं सूत्रम् गणावच्छेदकपदस्थाने आचायोपाध्यायपदं संनिवेश्य गणावच्छेदकसूत्रवदेव व्याख्येयम् ॥ सू० २८ ॥
पूर्वमन्याचार्योपाध्योद्देशनविधिरुक्तः, सम्प्रति कालगतभिक्षोः परिष्ठापनविधिमाह-'भिक्खू य राओ वा' इत्यादि ।
सूत्रम् - भिक्खू य राओ वा वियाले वा आहच्च वीसुंभिज्जा, तं च सरीरगं केइ वियावच्चकरे भिक्खू इच्छिज्जा एंगते बहुफासुए थंडिले परिद्ववित्तए, अस्थि य इत्थ केइ सागारियसंतिए उवगरणजाए अचित्ते परिहरणारिहे कप्पर से सागारियकड गहाय तं सरीरंगं एगंते बहुफासुए थंडिले परिहवित्ता तत्थेव उवनिक्खियन्चे सिया ॥ च०२९।।
छाया - भिक्षुश्च रात्रौ वा विकाले वा आहत्य विष्वग्भवेत् तच्च शरीरकं कश्चिद् वैयावृत्त्यकरो भिक्षुः इच्छेत् एकान्ते बहुप्रासु के स्थण्डिले परिष्ठायितुम्, अस्ति चात्र किञ्चित् सागारिकसत्कम् उपकरणजातम् अचित्तम् परिहरणार्हम्, कल्पते तस्य सागारिककृतं गृहीत्वा तत् शरोरकम् एकान्ते बहुप्रासुके स्थण्डिले परिष्ठाप्य तत्रैव उपनिक्षेप्तव्यं भवेत् ॥ सू० २९ ॥
चूर्णी - 'भिक्खू य' इति । भिक्षुश्च सामान्य श्रमणः चकाराद् आचार्योपाध्यायादिश्च रात्रौ वा सन्ध्याकालातिरिक्तरजन्याम् विकाले वा संध्यासमये सायंकाले आहत्य - कदाचित् 'वसुभिज्जा' इति विष्वग्भवेत् शरीराद् आत्मा पृथग् भवेत् कालधर्म प्राप्नुयात् म्रियेतेत्यर्थः तच्च शरीरकं मृतदेहं कश्चित् समीपस्थो वैयावृत्त्यकरः तस्य सेवाशुश्रूपावर्त्ती भिक्षुः इच्छेत्-वाञ्छेत्, किमित्याह-तं मृतदेहम् एकान्ते निर्जने बहुप्रासुके अवश्यायोतिङ्ग-पनक-दक-मृत्तिका-मर्कटसन्तानवर्जिते—तत्र–अवश्यायः · मेघमन्तरेण रात्रौ पतितः सूक्ष्मतुषाररूपः (ओस ) इति भाषाप्रसिद्धः । उतिङ्गाः-भूमौ वर्तुलविवरकारिणो गर्दभमुखाकृतयः कीटविशेषाः कीटिकानगरादयो वा । पनकःअङ्कुरितोऽनङ्कुरितो वा पञ्चवर्णानन्तकाय विशेष: जलसम्बन्धेन जायमानः पिच्छिलाकार : - (काई) इति लोकप्रसिद्धः । दकम् - उदकमप्कायः, मृत्तिका - सचित्तपृथ्वी कायः, मर्कटकसन्तानः- लता