________________
१०४
वृहत्कल्पसूत्र नादीन् वा न प्रत्युपेक्षन्ते, निष्कारणं च दिवा त्वग्वर्त्तयन्ति, भाण्डोपकरणं निक्षिपन्त आददाना वा तं न प्रत्युपेक्ष्य निक्षिपन्ति आददति च, यथायोगं विनयमपि न प्रयुञ्जते, सूत्रार्थपौरुषीं, सूत्रार्थचिन्तनां वा न कुर्वन्ति, अस्वाध्यायकाले सूत्रस्वाध्यायं कुर्वन्ति काले च न कुर्वन्ति, पाक्षिकादौ चालोचना न ददति, संखडी वा पश्यन्ति, मण्डल्यां भक्तपानादिसमुद्देशनं न कुर्वन्ति, सावद्यभाषां भाषन्ते, पटलकेषु 'थैली' इति भाषाप्रसिद्धेषु समानीतं भक्तपानादिकं भुजते, शय्यातरपिण्डं वा भुजते, उद्गमोत्पादनादिदोषदुष्टमाहारं गृह्णन्ति । इत्यादिषु विषीदने त्रयो भङ्गा सन्ति तत्र विधिमाह-'गच्छो विषीदति नाचार्यः' इति प्रथमभङ्गे सामाचार्या विषीदन्तं गच्छमाचार्यः स्वयं वा प्रेरयति १। 'आचार्यो विषीदति न गच्छः' एवंरूपे द्वितीयभङ्गे विषीदन्तमाचार्य गच्छः स्वयं वा प्रेरयति २। 'गच्छोऽपि विषीदति आचार्योऽपि विषीदति' इत्येवं रूपे तृतीयभङ्गे गच्छाचार्यो विषीदन्तौ कोऽपि मुनिः स्वयं प्रेरयति, अथवा तत्र ये न विषीदन्ति तैस्तान् प्रेरयति, किं बहुना स्थानं प्राप्य अनुलोमविलोमादिवचनैः प्रेरयति । एवं चाचार्योपाध्यायादिकं भिक्षुक्षुल्लकादिकं वा पुरुषवस्तु ज्ञात्वा यस्य यादृशी अनुलोमा विलोमा वा नोदना योग्या भवेत्तया प्रेरयति, यो वा खरसाध्यो मृदुसाध्यः क्रूरोऽक्रूरो वा यथा नोदनां गृह्णाति तं तथा प्रेरयेत् गच्छमाचार्य तदुभयं वा विषीदन्तं स्वयं ब्रुवन् अन्यैर्वा प्रेरयन् तिष्ठेत् । साध्वाचारविशोधनार्थ नानाविधिप्रेरणायां कृतायामपि यदि ते शिथिलाचारत्वं न मुञ्चन्ति तदा भिक्षुः आचार्यादीन् पृष्ट्वा तदाज्ञां गृहीत्वा गणान्तरसंक्रमणं कुर्यात् इति जिनाज्ञा बोध्या। पूर्वावस्थायां तत्र स्थितिमानमिदम्एते उच्यमाना अपि नोद्यमं करिष्यन्तीति ज्ञात्वा तत्रोत्कृष्टेन पञ्चदश दिवसान् तिष्ठेत् । आचार्य वा विषीदन्तं जानन्नपि लज्जया तद्गौरवेण वा त्रीणि पञ्च वा दिनानि अनोदयन्नपि शुद्ध एव, न दोषभाग् भवति । यदि च नोद्यमानोऽपि गच्छ आचार्यस्तदुभयं वा ब्रूयात्-'विषीदत्सु अस्मत्सु तव किं दुःखम् ? यदि वयं विषीदामस्तर्हि वयमेव दुर्गतिं गमिष्यामः, त्वां न किमपि कथयिष्यामः, त्वं स्वकीयमात्मानं प्रेरय, किमन्यैस्तव प्रयोजनम् ?' इत्येवंविधे भावे परिणते तेषां त्यागं कृत्वा यत्रौत्तरिको धर्मविनयो लभ्येत तत्र गच्छे गच्छेदिति भाष्यगाथाविस्तरः ॥२॥
पूर्व भिक्षोः संभोगप्रत्ययेन गच्छान्तरगमनं प्ररूपितम् , सम्प्रति गणावच्छेदकस्य संभोगप्रत्ययेन गच्छान्तरगमनं प्रतिपादयितुमाह-इत्यादि 'गणावगच्छेयए यं'
सूत्रम्--गणावच्छेयए य गणाओ अवक्कम्म इच्छेन्जा अण्णं गणं संभोगपडियाए उवसंपजित्ता णं विहरित्तए णो से कप्पइ गणावच्छेयत्तं अणिक्खिवित्ता अण्णं गणं संभोगपडियाए उवसंपज्जित्ता णं विहरित्तए, कप्पइ से गणावच्छेयत्तं णिक्खिवित्ता