________________
भूमि-सम्माऽवचूरी उ० ४ सू० २३
भिक्षोः संभोगार्थमन्यगणगमनविधिः १९३
अत्यंग संभोगप्रत्ययेन उपसंपदा विवर्त्तम, ते च तस्य वितरेसुः एवं तस्य कल्पते अन्य गणं संभोगप्रत्ययेन उपसंपद्य विहर्त्तम्, ते च तस्य नो वितरेयुः एवं तस्य नो कल्पते अन्यं गण संभोगप्रत्ययेन उपसंपद्य विहर्त्तम्, यत्रौत्तरिकं धर्मविनयं लभेत एवं तस्य कल्पते अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहर्त्तम्, यत्रौत्तरिकं धर्मविनयं नो लभेत एवं तस्य नो कल्पते अन्यं गण संभोगप्रत्यत्येन उपसंपद्य विहर्तुम् ॥ ० ॥ २३॥
चूर्णी - 'भिक्खू य' इति । भिक्षुश्च गणात् स्वगप्पात् अपक्रम्य निस्सृत्य संभोगप्रत्ययेनसंभोग:- एकमण्डल्यां भोजनादिरूपः, अथवा समवायाङ्गोक्तो द्वादशविधः संभोगस्तत्प्रत्ययेन तन्निमित्तेन तदर्थमित्यर्थः अन्यं गणमुपसंपय विहर्तुम् - अवस्थातुम् इच्छेत् तदा तस्य पूर्ववदेवआचार्यादिकमनापृच्छच नो कल्पते, आपृच्छय कल्पते । यदि ते गणान्तरगमनस्याज्ञां वितरेयुः एबम् - अनेनाज्ञा ग्रहण विधिना तस्य गणान्तरममनं कल्पते, यदि ते गणान्तरगमने आज्ञां नो क्तिरेयुस्तदा नो कल्पते गणान्तरगमनम् इति सूत्राशयः । भिक्षोः गणान्तरगमने कारणमाह-' जत्थुत्तारिय' इत्यादि, 'नत्थ' इति यत्र यस्मिन् गणे गन्तुमिच्छति तत्र यदि स औन्तरिकम् - उच्चतरं प्रधानं धर्मविनयं लमेत प्राप्नुयात् एतादृशो गणो यदि भवेत् तदा तस्य तमन्यं गणं संभोग़प्रत्ययेन उपसंपद्य विहर्तुम् - अवस्थातुं कल्पते, यत्रौत्तरिकं धर्मविनयं नो लमेत तदा तस्य अन्यं गणं संभोगप्रत्ययेन उपसंपद्य विहतु नो कल्पते ॥ सू० २३ ॥
अथ भाष्यकारो गणान्तरगमने विवेकं प्रदर्शयति- 'नाण' ० इत्यादि । भष्यम् - - नाणदंसणट्टा, चारितट्ठा भवे य संभोगो ।
संकमणे चभंगी, आयरियं गच्छ्रमासज्ज ॥ २॥ छाया - ज्ञानार्थ दर्शनार्थ चारित्रार्थं भवेच्च संभोगः । संक्रमणे चतुर्भङ्गी, आचार्य गच्छमासाद्य ॥ २ ॥
अवचूरी - 'नाण०' इति । ज्ञानार्थं दर्शनार्थं चारित्रार्थं च संभोगो भवेदिति त्रिविधः संभोग़ः, तदर्थं गणान्तरसंक्रमणं भवति, तत्र आचार्य गच्छं च आसाय - आश्रित्य चतुर्भङ्गी भवतीति भाष्यगाथार्थः । विस्तरार्थश्चायम् - स्वगच्छे सूत्रार्थदानादौ विषीदति सति गच्छन्तरसंक्रमणे पूर्वोक्तरीत्यैव गमनविधिस्त्रापि प्रतिपत्तव्यः, परन्तु चारित्रार्थे गच्छान्तरसंक्रमणे गच्छस्य प्रथममुपसंपन्नो भवति तस्मिन् गच्छे चरणकरण क्रियायां विषीदति सति चतुर्भङ्गी भवति, तथाहि गच्छो विषीदति नाचार्यः १, आचार्यो विषीदति न गच्छः २, गच्छोsप्रि आचार्योऽपि च विषीदति ३, न गच्छो विषीदति न वा आचार्यः ४ इति । तत्र प्रकृ 'गच्छो विषीदति नाचार्यः' इत्येवंरूपः प्रथमो भङ्गोऽवगन्तव्यः, तत्र स्वयं विषीदतो गच्छस्य आचार्येण प्रेरणा कर्त्तव्या, तत्र गच्छस्य विषादकारपणं यथा - प्रथमं तावत् मच्छश्रमणाः यथाकालं प्रत्युमेक्षणां न कुर्वन्ति न्यूनातिरिक्ता दिदोषैर्विपर्यासेन वा प्रत्युपेक्षणां कुर्वन्ति, गुरुग्ला