________________
चूर्णिभाष्याऽवचूरी उ० ४ सू० २१-२२ ___ गणावच्छेदकादेरन्यगणगमनविधिः १०१
सूत्रम्-गणावच्छेयए य गणाओ अवकम्म इच्छेज्जा अण्णं गणं उवसंपज्जित्ता णं विहरित्तए नो से कप्पइ गणावच्छेयगस्स गणावच्छेयगत्तं अणिक्खिवित्ता अन्नं गणं उव संपज्जित्ता णं विहरित्तए, कप्पइ गणावच्छेयगस्स गणावच्छेयगत्तं णिक्खिवित्ता अण्णं गणं उपसंपज्जित्ता णं विहरितए, णो से कप्पइ अणापुच्छित्ता आयरियं वा उवज्झायं वा पवत्तयं वा थेरं वा गणिं वा गणहरं वा गणावच्छेयगं वा अन्नं गणं उ वसंपज्जित्ता णं विहरित्तए, कप्पई से आपुच्छित्ता आयरियं वा जाव गणावच्छेयगं वा अण्णं गणं उवसंपज्जित्ता णं विहरित्तए, ते य से वियरेज्जा एवं से कप्पइ अण्णं गणं उपसंपज्जित्ता णं विहरित्तए, ते य से णो वियरेज्जा एवं से णो कप्पइ अण्णं गणं उवसंपज्जित्ता णं विहरित्तए ॥ सू० २१ ॥
छाया-गणावच्छेदकश्च गणाद् अपक्रम्य इच्छेत् अन्यं गणम् उपसंपद्य विहर्तुम् नो तस्य कल्पते गणावच्छेदकस्य गणावच्छे दकत्वम् अनिक्षिप्य अन्य गणम् उपसंपद्य विहर्तुम्, कल्पते तस्य गणावच्छेदकस्य गणावच्छेदकत्वं निक्षिप्य अन्य गणम् उपसंपद्य विहर्तुम् । नो तस्य कल्पते अनापृच्छय आचार्य वा उपाध्यायं वा प्रवर्तकं वा स्थविरं वा गणिनं वा गणावच्छेदकं वा अन्य गणम् उपसंपद्य विहर्तुम्, कल्पते तस्य आपू. च्छय आचार्य वा यावत् गणावच्छेदकं वा अन्य गणम् उपसंपद्य विहर्त्तम्, ते च तस्य वितरेयुः एवं तस्य कल्पते अन्य गणम् उपसंपद्य विहर्त्तम्, ते च तस्य नो वितरेयुः एवं तस्य नो कल्पते अन्यं गणम् उपसंपद्य विहर्तुम् ॥ सू० २१ ॥
चूर्णी--'गणावच्छेयए य' इति । गणावच्छेदको यदि गणादपक्रम्य विशेषज्ञानादिप्राप्त्यर्थम् अन्य गणमुपसंपद्य विहत्तुम् अवस्थातुम् इच्छेत् तदा तस्य गणावच्छेदकस्य गणावच्छेदकत्वं स्वपदवीरूपम् अनिक्षिप्य-आचार्यादिषु असमारोप्य न समर्म्य, स्वपदवीमन्यस्मै भदत्त्वेत्यर्थः अन्यं गणम् उपसंपद्य विहाँ नो कल्पते ।
तर्हि कय कल्पते ? इत्याह-कल्पते तस्य गणावच्छेदकस्य गणावच्छेदकत्वं स्वदपदवीरूपं निक्षिप्य अन्यस्मै दत्त्वा अन्य गणमुपसंपद्य विहर्तुमिति । पृच्छाविधिभिक्षुसूत्रवदेव व्याख्येयः । अयं भावः-आचार्यादिकमनापृच्छय गणान्तरसंक्रमणं तस्य न कल्पते, किन्तु आचार्यादिकमापृच्छयैव गणान्तरगमनं कल्पते । तत्रापि यदि ते गणान्तरगमनाज्ञां वितरेयुः तदा कल्पते, यदि न वितरेयुस्तदा नो कल्पते इति सूत्रार्थः ॥ सू० २१ ॥
पूर्व गणावच्छेदकस्य गणान्तरसंक्रमणविधिरुक्तः, सम्प्रति आचार्यस्य उपाध्यायस्य च ज्ञानाद्यर्थं गणान्तरगमने विधिमाह-'आयरियउवज्झाए य' इत्यादि ।
सूत्रम् -आयरियउवज्झाए य गणाओ अवक्कम्म इच्छेज्जा अण्णं गणं उवसंपज्जित्ता णं विहरित्तए नो से कप्पइ आयरियउवज्झायस्य आयरियउवज्झायत्तं अणिक्खिवित्ता अण्णं गण उवसंपज्जित्ता णं विहरित्तए, कप्पइ से आयरियउवज्झायस्स आयरियउवज्झायत्तं णिक्खिवित्ता अण्णं गणं उवसंपज्जित्ता णं विहरित्तए, नो से कप्पइ अणापुच्छित्ता आयरियं वा जाव