________________
१००
बृहत्कल्पसूत्रे
योगवैयावृत्त्यसेवाशुश्रूषासूत्रार्थाऽध्ययनाध्यापनादिषु यथायोग्यं बलाबलं विचार्य यथायोगं नियोजयति यः स प्रवर्त्तकः । स्थविरः - संयमयोगेषु सीदतः साधून् ऐहिकामुष्मिकापायप्रर्दशनपूर्वकं ज्ञानादिषु स्थिरीकरोति यः स स्थविर: | गणी - गणः साधुसमुदायः स्वस्वामिसम्बन्धेन यस्यास्ति स गण कतिपयसाधुसमुदायेन सह विचरणशीलो यः स गणी । गणधरः - यो गण चिन्ताकारकः गणस्य योगक्षेम विधायकः स गणधरः । गणावच्छेदकः - गणस्य साधुसमुदायस्य अवच्छेदं विभागं करोति यः स गणावच्छेदकः । एतान् आचार्यादीन् अनापृच्छ्य गणाद् गणान्तरमुपसंक्रम्य भिक्षोर्विह न कल्पते इति भावः । तहिं कथं कल्पते : इत्याह- पूर्वोक्तान् आचार्यादीन् आपृच्छ्य तस्य भिक्षोर्गणान्तरमुपसंपद्य विहर्तुं कल्पते । ते च यदि तस्य वितरेयुः गणाद् गणान्तरं संक्रमितुमाज्ञां दधुः एवम् अनेन विधिना तस्य भिक्षोः कल्पते अन्यं गणं गणाद् गणान्तरम् उपसंक्रम्य विहर्तुम् । यदि ते च तस्य गणान्तरसंक्रमणेच्छुकस्य नो वितरेयुः आज्ञां न दद्युः एवम् अनेन प्रकारेण आज्ञामन्तरेण नो कल्पते तस्य भिक्षोरन्यं गणमुपसंपद्य विहर्तुमिति । एवं भिक्षुविषय आलापो निर्ग्रन्ध्या अपि गणान्तरगमनविषयेऽवगन्तव्यः किन्तु एतदपेक्षया विशेषस्तु - निर्ग्रन्थी नियमत एव स सहाया गणान्तरं गच्छति न तु कथमपि असहाया एकाकिनीति ॥ सू० २० ॥
पूर्वसूत्रे सामान्य श्रमणस्य गणान्तरसंक्रमणविधिरुक्तः, एष एव गणावच्छेदकाचार्योपाध्यायानामपि विधिर्भवतीति भाष्यकारोऽतिदिशति - 'जह भिक्खुस्स' इत्यादि ।
भाष्यम् – जह भिक्खुस्स य कहिओ, गणावछेए तहेव आयरिए । एसेव उवज्झाए, विही य ते हुंति वंचा उ ॥ १॥
छाया - यथा भिक्षोश्च कथितः गणावच्छेदे तथैव आचार्ये । एष व उपाध्याये विधिश्व ते भवन्ति व्यक्तास्तु ॥ १ ॥
अवचूरी - 'जह भिक्खुस्स' इति यथा - येन प्रकारेण भिक्षोश्च सामान्यश्रमणस्य गणान्तरसंक्रमणविषये सूत्रे विधिः कथितः तथैव तेनैव प्रकारेण गणावच्छेदे - गणावच्छेदविषये, आचार्यै- आचार्यविषये, उपाध्याये उपाध्यायविषये एष एव विधिः पृच्छादिरूपो विज्ञेयः, नवरं नानात्वं केवलमेतावदेव यत् - भिक्षोः केवलं पृच्छपूर्वकं गमनं प्रतिपादितम्, गणावच्छेदका - दीनां तु स्वपदत्यागपुरस्सरमाचार्यादिकं पृष्ट्वा गन्तव्यम्, यत एते गणावच्छेदकादयो नियमात् 'वत्ता उ' इति व्यक्ता वयसा श्रुतेन च व्यक्ता एव भवन्ति नाव्यक्ताः ततो योsव्यक्तस्य विधिरुक्तः सोऽत्र न भवतीति भावः ॥ १ ॥
पूर्वं सामान्य श्रमणस्य ज्ञानाद्यर्थं गणान्तरगमनविधिः प्रतिपादितः सम्प्रति विशेषमाश्रित्य गणावच्छेदकाचार्योपाध्यायानां गणान्तरगमन विधि सूत्रकारः साक्षात् प्रतिपादयन् प्रथमं गणावच्छेदकस्य विधिमाह – 'गणात्रच्छेयए य' इत्यादि ।
"