________________
पूर्णिभाष्याऽवचूरी उ०४ सू० १८-१९ अनेषणीयाहारादेः शेक्षकाय दान विधिः ९७ तदा स चातुर्मासिकं परिहारस्थानमुद्घातिकम् आपद्यते-प्राप्नोति स चतुर्लघुकप्रायश्चित्तभागी भवतीत्यर्थः ॥ सू० १७॥
पूर्वसूत्रे श्रमणैः कालक्षेत्रमर्यादामनतिक्रम्यैव आहारः कर्त्तव्य इति प्रतिपादितम्, सम्प्रति आहारप्रसङ्गात् कदाचिदनामोगेनानेषणीयमचित्तमशनादि गृहीतं स्यात्तदा किं कर्त्तव्यमिति तद्विधिं प्रतिपादयितुमाह- 'निग्गंथेण य' इत्यादि ।
सूत्रम्--निग्गंथेण य गाहावइकुलं पिंडवायपडियाए अणुप्पविद्वेणं अन्नयपरे अचित्ते अणेसणिज्जे पाणभोयणे पडिग्गाहिए सिया, अस्थि या इत्थ केइ सेहतराए अणुवट्ठावियए कप्पइ से तस्य दाउं वा अणुप्पदाउं वा, नत्थि या इत्थ केइ सेहतराए अणुवट्टावियए तं नो अप्पणा अँजिज्जा नो अन्नेसिं दावए, एगंते बहुफासुए थंडिले पडिलेहित्ता पमज्जित्ता परिट्टवेयव्वे सिया ॥ सू० ॥ १८॥
छाया-निर्ग्रन्थेन च गाथापतिकुलं पिण्डपातप्रतिशया अनुप्रविष्टेन अन्यतरद् अचित्तम् अनेषणीयं पानभोजनं प्रतिगृहीतं स्यात्, अस्ति चात्र कश्चित् शैक्षतरकः अनुपस्थापितकः कल्पते तस्य तस्मै दातुं वा अनुप्रदातुं वा, नास्ति चात्र कश्चित् शैक्षतरक: अनुपस्थापितकः तद् नो आत्मना भुञ्जीत, नो अन्येभ्यः दद्यात् एकान्ते बहुप्रासुके स्थण्डिले प्रतिलेख्य प्रमृज्य परिष्ठापयितव्यं स्यात् । सू० ॥१८॥
चूर्णी-'निगंथेण य' इति । निम्रन्थेन च गाथापतिकुलं-गृहस्थगृहम् पिण्डपातप्रतिज्ञया-आहारग्रहणवाञ्छया अनुप्रविष्टेन तत्र अन्यतरत् चतुर्विधाशनादिमध्याद् एकम् तद् अचित्तं प्रासुकं किन्तु अनेषणीयम् - एषणादोषदुष्टम् पानभोजनम्-पानं वा भोजनं वा उभयं वा प्रतिगृहीतम् कदाचिदनाभोगेन पात्रे गृहीतं स्यात्, तदा अस्ति चात्र साधुमण्डल्यां कश्चित् शैक्षतरकः नवदीक्षितो बालदीक्षितो वा, सोऽपि अनुपस्थापितकः अनारोपितमहाव्रतकः, यावत्कालं छेदोपस्थापनीयचारित्रं न दीयते तावत्कालं स अनुपस्थापितकः प्रोच्यते, छेदोपस्थापनीयचारित्रस्य समयः जघन्यतः सप्त दिनानि, मध्यमतश्चतुरो मासान् , उत्कृष्टतः षण्मासान् यावदिति । यदि षण्मासपर्यन्तमपि प्रतिक्रमणं तेन न शिक्षितं भवेत् तदा तदनन्तरमपि प्रतिक्रमणशिक्षणपर्यन्तं छेदोपस्थापनीयचारित्रं न दीयते, एतादृशो यदि तत्र भवेत्तदा कल्पते तस्यानेषणीयाहारग्रहीतुः साधोः तस्मै अनुपस्थापितकाय तत् पानं वा भोजनं वा दातुं वा प्रथमतो वितरीतुम् अनुप्रदातुं वा वारं वारम् अन्यस्मिन् एषणीयपानभोजनदानात् पश्चाद्वा कल्पते इति पूर्वेण सम्बन्धः । यदि च नास्ति तत्र कश्चित् शैक्षतरकः अनुपस्थापितकस्तदा तदनेषणोय पानभोजनं नैव आत्मना स्वयं भुञ्जीत, नो वा अन्येभ्यः श्रमणादिभ्यः दद्यात् । तदा किं कुर्यादित्याह- तत् पानभोजनम् एकान्ते निर्जने बहुप्रासुके अचित्ते स्थण्डिले भूमिप्रदेशे प्रति