________________
वृहत्कल्पसूत्रे इत्यादि । तच्चाशनादिकम् आहत्य कदाचिदनाभोगादिकारणेन यदि ‘उवाइणाविए'उपानायितं प्रथमपौरुष्यां गृहीत्वा चरमपौरुष्यां प्रापितं स्यात् पौरुषीत्रयमुल्लङ्घय चतुर्थी पौरुषी प्राप्ता भवेत् तदा प्रथमपौरुष्यानीतं तदशनादिकं नो नैव आत्मना स्वयं भुञ्जीत न स्वयं तस्योपभोगं कुर्यात् , नो नैव च अन्येभ्यः श्रमाणादिभ्यः अनुप्रदद्यात् । तर्हि किं कर्त्तव्यम् ? इत्याह-'एगंते' इत्यादि, तत् प्रथमपौरुषीगृहीतमशनादिकं एकान्ते विजने गमनागमनरहिते बहुप्रासुके जीवरहिते अचित्ते स्थण्डिले भूमिप्रदेशे यत्र तदाहारप्रसङ्गेन द्वीन्द्रियादिजीवोत्पत्तिर्न भवेत् तत्प्रकारेण प्रतिलेख्य स्थण्डिलस्य चक्षुषा सम्यग् निरीक्षणं कृत्वा तथा प्रमृज्य तस्य स्थानस्य रजोहरणेन सम्यक्तया प्रमार्जनं कृत्वा परिष्टापयितव्यं स्यात् , एकान्ते बहुप्रासुके भूमिप्रदेशे प्रतिलेखनप्रमार्जनपूर्वकं निक्षेप्तव्यम् । किमर्थं परिष्ठापनीयमित्याह-तदशनादिकम् आत्मना स्वयं भुजानः अन्यस्मै वा ददानः स आपद्यते प्रप्नोति चातुर्मासिकं परिहारस्थानम् उद्घातिकं चतुर्लघुकं प्रायश्चित्तमिति सूत्राशयः॥ सू० १६॥
पूर्वमशनादिविषये कालातिक्रमः प्ररूपितः, सम्प्रति क्षेत्रातिक्रमसूत्रमाह-'नो कप्पई' इत्यादि ।
सूत्रम्-नो कप्पइ निग्गंथाण वा निग्गंथीण वा असणं वा पाणं वा खाइमं वा साइमं वा परं अद्धजोयणमेराए उवाइणावित्तए, से य आहच्च उवाइणाविए सिया तं नो अप्पणा अँजिज्जा, नो अन्नेसि अणुप्पएज्जा, एगते बहुफासुए थंडिले पडिलेहित्ता पमज्जित्ता परिद्ववेयव्वे सिया, तं अप्पणा मुंजमाणे अन्नेसि वा दलमाणे आवज्जइ चाउम्मासियं परिहारट्टाणं उग्घाइयं ॥ सू० १७॥
छाया-नो कल्पते निर्ग्रन्थानां वा निर्ग्रन्थीनां वा अशनं वा पानं वा खाद्यं वा स्वाद्यं वा परम् अर्द्धयोजनमर्यादायाः उपानाययितुम्, तच्च आहत्य उपानायितं स्यात् तद् नो आत्मना भुञ्जीत नो अन्येभ्यः अनुप्रदद्यात्, एकान्ते बहुप्रासुके स्थण्डिले प्रत्युपेक्ष्य प्रमायं परिष्ठापयितव्यं स्यात्, तद् आत्मना भुजानः अन्येभ्यो वा ददानः आपद्यते चातुर्मासिकं परिहारस्थानम् उद्घातिकम् ॥ सू. १७ ॥
चूर्णी-- 'नो कप्पई' इति । नो कल्पते निर्ग्रन्थानां निम्रन्थीनां 'असणं वा ४' अशनादिकं चतुर्विधमाहारम् अर्द्धयोजनमर्यादायाः क्रोशद्वयरूपाया मर्यादायाः सीमायाः परम्-अनन्तरम् क्षेत्रम् उपानाययितुम्-क्रोशद्वयलक्षणसीमानमतिक्रामयितुं नो कल्पते इति पूर्वेण सम्बन्धः, गृहीतमशनादिकं तत्क्षेत्रात् क्रोशद्वयाभ्यन्तरक्षेत्रे एव भोक्तुं कल्पते न तु क्रोशद्वयानन्तरक्षेत्रे इति भावः । तच्चाशनादिकम् आहत्य कदाचित् यदि अनाभोगादिकारणवशाद् उपानायितम् गृहीताशनादि क्षेत्रात् क्रोशद्वयात् परक्षेत्रे प्रापितं स्यात् तदा तदशनादिकं न स्वयं भुञ्जीत, नान्येभ्यः श्रमणादिभ्यः प्रदद्यात् अपितु तदशनादिकं बहुप्रासुके स्थण्डिले प्रतिलेख्य प्रमृज्य तत्राचित्तभूप्रदेशे परिष्ठापयितव्यं स्यात् । यदि तदशनादिकस्य स्वयं भोक्ता अन्येभ्यः प्रदाता वा भवेत्