________________
चूर्णी-भाष्यावचूरी टीका० उ० १ सू० १२-१४
अकुशलप्रतिसेवना ७ सूत्रम्-जे भिक्खू पदमग्गं वा संकमं वा अवलंबणं वा अण्णउत्थिएण वा गारथिएण वा कारेइ कारंतं वा साइज्जइ ।। सू० १२॥
___ छाया-यो भिक्षुः पदमार्ग वा संक्रमं वा अवलम्बनं वा अन्यतीर्थिकेन वा गृहस्थेन वा कारयति कारयन्तं वा स्वदते ॥ सू० १२ ॥
चूर्णी-'जे भिक्खू' इति । 'जे भिक्खू' यो भिक्षुः ‘पदमग्गं वा' पदमार्ग वा पदस्थानमार्ग वा 'संकर्म वा' संक्रमं वा-जलपङ्काबुल्लङ्घनार्थ पाषाणादिस्थापनम् 'अवलम्बनं वा'-यदवलम्ब्य ऊर्ध्वमारुत्यते, तद्वस्तु सोपानादिकम् 'अण्णउत्थिएण वा' अन्यतीर्थिकेन वा शाक्यादिना 'गारथिएण वा' गृहस्थेन वा 'कारेइ' कारयति 'कारतं वा' कारयन्तं वा 'साइज्जइ' स्वदते अनुमोदते स दोषभागभवतीति ॥ सू०१२ ॥
सूत्रम्-जे भिक्खू दगवीणियं वा अण्णउत्थिएहिं वा गारथिएहिं वा कारेइ करतें वा साइज्जइ॥सू० १३॥
छाया-यो भिक्षुः उदकवीणिकाम्-अन्यतीर्थिकैर्वा गृहस्थैर्वा कारयति कारयन्तं वा स्वदते ॥ सू० १३॥
चूर्णी-'जे भिक्खू दगवीणियं इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः निरवद्य भिक्षणशीलः श्रमणः । 'दगवीणियं' उदकवीणिकाम् , तत्र-उदकस्य-जलस्य वीणिका वाहः प्रणाली, जलनालिकेति लोकप्रसिद्धा वर्षादिजलनिर्गमनाय तामुदकवीणिकाम् । 'अन्न उत्थिएहिं वा' अन्ययूथिकैः वा अथवा 'गारत्थिएहि वा' गृहस्थैः श्रावकैर्वा 'कारेइ' कारयति । अथवा 'कारेंतं वा साइज्जइ' कारयन्तं जनप्रवाहं स्वदते-अनुमोदते । अर्थात् यः साधुः जल प्रणाली स्वयमेव करोति अथवा श्रावकादिद्वारा कारयति अथवा-जलस्य निःसारणार्थ मार्ग कुर्वन्तं अन्यमनुमोदते यथा सम्यक्कृतं भवतेत्यादि स साधुः प्रायश्चित्तभाग् भवति, जलप्रवाहकरणे एकेन्द्रियादि षड्जीवानामुपमर्दस्याऽवश्यं संभवात् इति ॥ सू० १३ ॥ भाष्यम्-नालिया दुविहा वुत्ता, संबद्धा च तहेयरा !
संबद्धा तिविहा णेज्जा, वक्खमाणपभेयओ॥१॥ छाया-नालिकाद्विविधा प्रोक्ता संबद्धा च तथेतरा ।
संबद्धा त्रिविधा ज्ञेया वक्ष्यमाणप्रभेदतः ॥१॥ अवचूरी-'जलनालिया' इति । 'नालिया' नालिका जलनालिका, यस्य जलप्रवाहस्य करणेऽन्यद्वारा वा करणे, तदनुमोदने साधूनां प्रायश्चित्त कथितम् । जलप्रवाहो द्विविधः
શ્રી નિશીથ સૂત્ર