________________
निशीथसूत्रे चूणी--'जे भिक्खु अङ्गादाणं जिग्घइ' इति । 'जे भिक्खु यो भिक्षुः 'अंगादाणं' अङ्गादानम् जिग्घइ जिघ्रति नासिकया तद्गन्धं गृह्णाति, यद्वा हस्तेन मर्दयित्वा हस्ताऽऽगतं गन्धं जिघ्रति 'जिग्तं' जिघ्रंन्तं वा 'साइज्जइ' स्वदते तनुमोदते स चारित्रदोषभाग्भवति । अत्र दृष्टान्तमाह
यथा कोऽपि घातकगन्धपदार्थ नासिकया जिघ्रति तस्य तद्गन्धेन प्राणवियोजनं भवति । यद्वा यथा कश्चित् राजकुमारः वैद्येन प्रतिषिद्धोऽपि आनं जिध्रति आनं जिघ्रतस्तस्य 'आम्र' नामको व्याधिः समुत्पन्नः गन्धप्रियेण कुमारेण गन्धं जिघ्रता स्वात्मा जीविताद् भ्रंशितः। तथैवाऽङ्गादानं जिघन्मुनिर्मोहोदयेन स्वात्मानं संयमजीविताद् भ्रंशयति ॥ सू० ८॥
सूत्रम्-जे भिक्खू अंगादाणं अण्णयसि अचित्तंसि सोयंसि अणुप्पवेसित्ता सुक्कपोग्गले णिग्याएइ णिग्घायंतं वा साइज्जइ ॥ सू० ९॥
छाया-- यो भिक्षुः अङ्गादानम् अन्यतरस्मिन् अचित्त स्रोतसि अनुप्रवेश्य शुक्रपुद्गलान् निर्घातयति निर्घातयन्तं वा स्वदते ॥ सू० ९ ॥
चूर्णी - 'जे भिक्खू अंगादाणं अण्णयरंसि' इति । 'जे भिक्खू' यो भिक्षुः 'अंगादाणं' अङ्गादानम् 'अण्णयरंसि' अन्यतरस्मिन् बहूनां मध्ये एकस्मिन् कस्मिश्चित् 'अचित्तंसि' अचित्ते 'सोयसि' स्रोतसि-वलयादिच्छिद्रे 'अणुप्पवेसित्ता' अनुप्रवेश्य 'मुक्का पोग्गले' शुक्रपुद्गलान् ‘णिग्याएइ' निर्घातयति-विनाशयति साधुनिःसारयति, साध्वी च स्वयोनौ कदलीफलादि प्रवेश्य रजःपुद्गलान् निस्सारयति 'णिग्यायंतं वा' निर्घायन्तं वा 'साइज्जई' स्वदते स सा च दोषभाग् भवति आत्मविराधनावान् भवति साध्वी दोषभागिनी आत्मविराधनावती च भवति शुक्ररजःक्षयेण म्रियते इत्यर्थः एवं सर्वत्र साध्वीविषयेऽपि संयोज्यम् ॥ सू० ९॥
सूत्रम्-जे भिक्खू सचित्तं गंध जिग्घइ, जिग्छतं वा साइज्जइ ॥१०॥
सूत्रम्--जे भिक्खू सचित्तपइट्ठियं गंधं जिग्घइ जिग्छतं वा साइज्जइ ॥ सू० ११॥
छाया-यो भिक्षुः सचित्त गन्धं जिघ्रति जिघ्रन्तं वा स्वदते ॥ सू० १० ॥ यो भिक्षुः सचित्तप्रतिष्ठितं गन्धं जिर्घात जिवन्तं वा स्वदते ।। सू० ११ ॥
चूर्णी-'जे भिक्खू सचित्तं गं,' इति । स्पष्टम् । नवरम्-सचित्तं गन्धं पुष्पफलाद्याश्रितम् । उपलक्षणादचित्तं गन्धं चन्दनादिकमपि जिघ्रति, सचित्तप्रतिष्ठितमिति सचित्तजलघटायुपरि स्थापितं सचित्तमचित्तं वा गन्धं जिघ्रति, स प्रायश्चित्तभाग् भवति ॥ सू० १०-११ ॥
શ્રી નિશીથ સૂત્ર