________________
चूणिभाष्यावचूरिः उ० २०सू३०-३३ परिहारस्थानप्रस्थापितस्याऽऽरोपणाविधिः ४५१ विशेषस्त्वयम्-अत्र सूने सर्व प्रायश्चित्तमारोपणासहितम् 'सवीसइराइया चत्तारि मासा' सविंशतिरत्रिका विंशत्यहीरात्रसहिताश्चत्वारो मासाः प्रायश्चित्तरूपेण भवन्तीति, शेषं पूर्ववदिति ।। सू०२९॥
सूत्रम्-सवीसइराइयं चाउम्मासियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा दोमासियं परिहारहाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरितं तेण परं सदसराइया पंच मासा ॥ सू० ३०॥
__ छाया-सविंशतिरात्रिकं चातुर्मासिकं परिहारस्थानं प्रस्थापितोऽनगारोऽन्तरा द्वैमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा विंशतिरात्रिकी आरोपणा आदि मध्यावसाने सार्थ सहेतुं सकारणमहीनमतिरिक्तं तेन परं सदशरात्रिकाः पञ्च मासाः ॥३०॥
चूर्णी-'सवीसइराइयं' इत्यादि । सवीसइराइयं चाउम्मासियं' सविंशतिरात्रिकं चातुर्मासिकम् विंशतिरात्रिसहितमास चतुष्टयसंपादनयोग्यम् 'परिहारहाणं' परिहारस्थानम् , अत्र विंशत्यहोरात्रसहितेषु चतुर्षु मासेषु विंशत्यहोरात्रिकारोपणासंमेलने सर्वे 'सदसराइया पंच मासा' इति दशाहोरात्रसहिताः पञ्च मासाः प्रायश्चित्तत्वेन भवन्ति, शेषं सर्व पूर्ववदेव व्याख्येयमिति ॥ सू०३०॥
सूत्रम्-सदसराइयं पंचमासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअट्ठ सहेउं सकारणं अहीणमइरित्तं तेण परं छम्मासा ।। सू० ३१॥
छाया- सदशरात्रिनं पाञ्चमासिकं परिहारस्थानं प्रस्थापितोऽनगारोऽन्तरा द्वैमासिकं परिहारस्थानं प्रतिसेव्य आलोचयेत् अथापरा विंशतिरात्रिकी आरोपणा आदिमध्यावसाने सार्थ सहेतुं सकारणमहीनमतिरिक्तं तेन परं षण्मासाः ॥३१॥
चूर्णी - 'सदसराइयं' इत्यादि । 'सदसराइयं पंचमासिकं' सदशरात्रिकं पाञ्चमासिकम्, पूर्वसूत्रसंप्राप्तं दशाहोरात्रसहितं पाञ्चमासिकम्, शेषं सर्वं पूर्ववद् व्याख्येयम् , विशेषस्त्वयम्-अत्र दशाहोरात्रिक पाञ्चमासिकप्रायश्चित्ते विंशतिरात्रिकी आरोपणा भवति तेण परं छम्मासा' ततः सर्वसंकलिताः षड्मासा भवन्ति, न षण्मासादधिकं प्रायश्चित्तं भवतीति ।। सू० ३१ ॥
अथ पाण्मासिकादिपरिहारस्थानप्रस्थापनायां मासिकपरिहारस्थानप्रतिसेवनायां पाक्षिकारोपणाविषयं प्रायश्चित्तविधिं प्रदर्शयति--'छम्मासियं' इत्यादि ।
सूत्रम्--छम्मासियं परिहारट्ठाणं पट्ठविए अणगारे अंतरा मासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा पक्खिया आरोवणा
શ્રી નિશીથ સૂત્ર