________________
४५०
निशीथसूत्रे सूत्रम्--सदसराइयं तेमासियं परिहारहाण पट्ठविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअट्ठ सहेउं सकारणं अहीणमइरितं तेण परं चत्तारि मासा ॥ सू० २८॥
छाया सदशरात्रिकं त्रैमासिकं परिहारस्थान प्रस्थापितोऽनगारः अन्तरा द्वैमासिकम् परिहारस्थानं प्रतिसेव्य आलोवयेत् अथापरा विंशतिरात्रिकी आरोपणा आदिमध्यावसाने सार्थ सहेतुं सकारणमहीनमतिरिक्तं तेन परं चत्वारो मासाः ॥ सू० २८ ॥
___ चूर्णी-'सदसराइयं' इत्यादि । 'सदसराइयं तेमासियं' सदशरात्रिकं त्रैमासिकम्दशाहोरात्रसहितं त्रैमासिकं पूर्वसूत्रोक्तम् 'परिहारहाण' परिहारस्थानं सावद्यकर्मणामनुष्ठानलक्षणम् , तस्मिन् सदशरात्रिकत्रैमासिकपापनाशनाय परिहारतपसि 'पट्ट विए अणगारे' प्रस्थापितोऽनगारः प्रायश्चित्तकरणाय नियुक्तो भिक्षुकः यदि 'अंतरा' अन्तरा-मध्ये 'दोमासियं परिहारहाणं' द्वैमासिकम् मासद्वयसंपादनीय परिहारस्थानम् 'पडिसेवित्ता आलोएज्जा' प्रतिसेव्य प्रतिसेवनां कृत्वा आलोचयेत्-गुरुसमीपे आलोचनां कुर्यात् तदा 'अहावरा वीसइराइया आरोवणा' अथापरा विंशतिरात्रिकी आरोपणा कर्त्तव्या प्रकृतप्रायश्चित्तादतिरिक्ता विशतिरात्रिप्रमाणा दातव्या । कथमित्याह-'आइमज्झावसाणे' आदिमध्यावसाने प्रत्येकभागे 'सअटुं सहेउं सकारणं अहीणमइरित्तं' सार्थ सहेतुं सकारणमहीनमतिरिक्तं सर्व संपूर्ण प्रायश्चित्तं दातव्यम् 'तेण परं चत्तारि मासा' तेन परम्-ततः-पूर्वसूत्रोक्तात्परं सदशरात्रिकमासद्वयविंशतिरात्रिकारोपणसंमेलनात्परं चत्वारो मासाः प्रायश्चित्तरूपेण भवन्ति ॥ सू० २८ ॥
सूत्रम्-चाउम्मासियं परिहारट्ठाणं पट्टविए अणगारे अंतरा दोमासियं परिहारट्ठाणं पडिसेवित्ता आलोएज्जा अहावरा वीसइराइया आरोवणा आइमज्झावसाणे सअटुं सहेउं सकारणं अहीणमइरित्तं तेण परं सवीसइराइया चत्तारि मासा ॥ सू० २९॥
छाया-चातुर्मासिकं परिहारस्थानं प्रस्थापितोऽनगारोऽन्तरा द्वैमासिकं परिहार स्थानं प्रतिसेव्य आलोचयेत् अथापरा विंशतिरात्रिकी आरोपणा आदिमध्यावसाने साथै सहेतुं सकारणमहीनमतिरिक्तं तेन परं सविंशतिरात्रिकाश्चत्वारो मासाः ॥ सू० २९॥ - चूर्णी—'चाउम्मासियं' इत्यादि । 'चाउम्मासियं परिहारठाणं' चातुर्मासिकं परिहारस्थानम्-मासचतुष्टयेन संपादनीय पूर्वसूत्रोक्तं परिहारस्थानं प्रति 'पद्वविए' प्रस्थापितः तस्मिन् चातुर्मासिकपरिहारस्थाने समुपस्थापितः 'अणगारे' अनगारः, शेषं सर्व पूर्वसूत्रवदेव व्याख्येयम् ,
શ્રી નિશીથ સૂત્ર