SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० १८ सू० १५-३२ नौछिद्र पिधान- तद्गतदातुरशनादिग्रहणनि० ४०७ छाया -यो भिक्षुः नाबुदकभाजनेन वा प्रतिग्रहेण वा मात्रकेण वा नावुत्सिञ्चनकेन वा नावम् उत्सिञ्चति - उत्सिञ्चन्तं वा स्वदते ॥ सू० १५ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिदभिक्षुः श्रमणः श्रमणी वा 'णावाउदगभायणेण वा' नावुदकभाजनेन - नौकोदकभाजनेन, नौकासंबन्धिनोदकपात्रेण जलनिःसारकपात्रेण 'पडिग्गहेण वा' प्रतिग्रहेण - स्वकीयाहारपात्रेण वा 'मत्तएण वा' मात्रकेन - स्वकीयलघुपात्रेण वा 'णावाउस्सिंचणेण वा' नावुत्सिञ्चनकेन वा नौकोत्सिञ्चनकेन वा येन पात्रेण नौकास्थितं जलं बहिर्निष्कास्यते तादृशपात्रेण 'णावं' नाव नाकाम् ' उस्सिचइ उत्सिञ्चति - नौकास्थं जलं नौकातो बहिर्निष्कासयति तथा 'उस्चितं वा उत्सिञ्चन्तं वा श्रमणान्तरम् 'साइज्जइ' स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० १५ ॥ सूत्रम् -- जे भिक्खू नावंउत्तिगेण उदगं आसवमाणं उवरुवरिं च कज्जलावेमाणं पेहाए हत्थेण वा पाएण वा आसत्थपत्तेण वा कुसपत्तेण वा मट्टियाए वा वेलेण वा चेलकण्णेण वा पडिपि पडिपितं वा साइज्जइ ॥ सू० १६॥ छाया ॥ -यो भिक्षुर्नावुत्तिङ्गेन उदकमास्त्रवन्तम् उपर्युपरि च कज्जलावमानां प्रेक्ष्य हस्तेन वा पादेन वा अश्वत्थपत्रेण वा मृत्तिकया वा चेलेन वा चेलकर्णेण वा परिपिदधाति प्रतिपिदधन्तं वा स्वदते ॥ सू० १६ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः - श्रमणः श्रमणी वा 'णावं उर्त्तिगेण' नावुत्तिङ्गेन नौबिलेन नौछिद्रेणेत्यर्थः 'उद्गं आसवमाणं' उदकम् आस्रवन्तम् छिद्रेण नौकायां जलं प्रविशन्तं 'उवरुवरिं च कज्जलावेमाणं' उपर्युपरीति वेगपूर्वकं कज्जलावमानां ब्रुडन्तीं प्लाव्यमानामित्यर्थः ‘ब्रुडः कज्जलाव' इति वचनात् 'पेहाए' प्रेक्ष्य - दृष्ट्रा तन्निरोधार्थम् 'हत्थेण वा' हस्तेन वा 'पाएण वा' पादेन वा 'आसत्थपत्तेण वा' अश्वत्थपत्रेण वा पिप्पलपत्रेण वा 'कुसपत्तेण वा' कुशपत्रेण वा दर्भसमूहेन वा 'मट्टियाए वा' मृत्तिकया वा 'चेलेण वा' चेलेन वस्त्रेण वा 'चेलकण्णेण वा' चेलकर्णेन वा वस्त्रखण्डेन वनान्ति मभागेन वा 'पडिपिइ' प्रतिपिदधाति - छिद्रस्य मुखं निरुणद्धि अन्येन वा छिद्रनिरोधं कारयति 'पडिपिहतं वा साइज्जइ' परिपिदधतं वा छिद्रेण नौकायां प्रविशतो जलस्य हस्तादिना निरोधं कुर्वन्तं श्रमणान्तरं यः स्वदते-- अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० १६॥ सूत्रम् - जे भिक्खु णावागओ णावागयस्स असणं वा पाणं वा खाइमं वा साइमं वा डिग्गाहेइ पडिग्गा वा साइज्जइ ॥ सू० १७ ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy