________________
४०६
निशीथसूत्रे जलमर्यादायां गमनशीलाम् नावम् नौकाम् 'दुरूहइ' दूरोहति तादृशनौकायामधिरोहणं करोति कारयति वा तथा 'दुरूहंतं वा साइज्जइ' दूरोहन्तं वा नौकामधिरोहन्तम् अधिरोहणं कुर्वन्तं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥सू० १२॥
सूत्रम्-जे भिक्खू णावं आकसावेइ खेवावेइ रज्जुणा कडेणं वा कड्ढावेइ आकसावंतं वा खेवावंतं वा कड्डावंतं वा साइज्जइ ॥ सू०१३ ॥
छाया–यो भिक्षुः नावमाकर्षयति क्षेपयति रज्ज्वा काष्ठेन वा कर्षयति, आकर्षयन्तं वा क्षेपयन्तं वा कर्षयन्तं वा स्वदते ॥ सू० १३॥
चर्णी_'जे भिक्ख' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'णावं' नावं नौकां जले संतरन्ती जले निमज्जन्ती वा 'आकसावेई' आकर्षयति-समीपे आन. यितुं प्रेरयति 'खेवावेई' क्षेपयति चालनकाष्ठेन अन्यद्वारा चालयति, तथा 'रज्जुणा' रज्ज्वा 'कडेण वा' काष्ठेन वा यष्टयादिना 'कडूढावेइ' कर्षयति-जलाद्वहिनिष्कासयति, एवम् आकप्रयन्तं क्षेपयन्तं रज्ज्वा काष्ठेन वा नावं कर्षयन्तं श्रमणान्तरम् 'साइज्जइ' स्वदते–अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १३ ॥
सूत्रम्-जे भिक्खू णावं अलित्तएण वा दंडेण वा पफिडिएण वा वंसेण वा वलेण वा वाहेइ वाहेंतं वा साइज्जइ ॥सू० १४॥
छाया- यो भिक्षः अरित्रकेण वा दण्डेन वा पफिडिएण वा वंशेन वा वलेन वा वायति वाहयन्तं वा स्वदते ॥ सू० १४ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'णावं' नावम्-नौकाम् 'अलित्तएण वा' अरित्रकेण वा-नौचालकदण्डविशेषेण 'दंडेण वा' दण्डेन वा सामान्यदण्डविशेषेण 'पप्फिडिएण वा' 'पप्फिडिय' इति नौचालकोपकरणवाचको देशी शब्दः तेन वा 'वंसेण वा' वंशेन वा-वंशयष्ट्या वा 'वलेन वा' वला इति प्रसिद्धेन पृथुलकाष्ठेन वा, एतैरुपर्युक्तनौकाचालकसाधनैः यः श्रमणः श्रमणी वा नौकाम् 'वाहेइ' वाहयति चालयति स्वयं परद्वारा वा चालयति तथा 'वाहेंतं वा साइज्जई' वाहयन्तं वा नौका चालयन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स 'प्रायश्चितभागी' भवतीति ।। सू० १४ ॥
सूत्रम्-जे भिक्खू णावाउदगमायणेण वा पडिग्गहेण वा मत्तएण वा णावाउस्सिचणेण वा णावं उस्सिंचइ उस्सिचंतं वा साइज्जइ ॥
શ્રી નિશીથ સૂત્ર