SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ०१७ सू० २५४-२५६ तालादिवीणादिशङ्खादिशब्दश्रवणेच्छानिषेधः ३९७ तहप्पगाराणि घणाणि सदाणि वा कण्णसोयपडियाए अभिसंधारेइ अभिसंधारेत वा साइज्जइ ॥ सू० २५४ ॥ छाया-यो भिक्षुस्तालशब्दान् वा कांस्यतालशब्दान् वा लित्तिकाशब्दान् वा गो. धिकाशब्दान् वा मकरिकाशब्दान् वा कच्छपीशब्दान् वा महतिशब्दान् वा सणालिकाशब्दान् वा वलिकाशब्दान् वा अन्यतरान् वा तथाप्रकारान् घनान् शब्दान् वा कर्णश्रोतःम्रतिज्ञया अभिसन्धारयति अभिसन्धारयन्तं वा स्वदते ॥ सू० २५४ ॥ ची-'जे भिक्ख' इत्यादि । यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'तालसदाणि वा' तालशब्दान् वा-संयोगाभिघातजन्यतासम्बन्धेन जायमानान् शब्दान् 'कंसतालसदाणि वा' कांस्यतालशब्दान् वा, तत्र कांस्य-धातुविशेषस्तस्य तालो-वादित्रविशेषः तत्संयोगेन जायमानान् शब्दान् कांस्यतालशब्दान् 'लित्तियसहाणि वा' लित्तिकाशब्दान् वा, तत्र लित्तिका वादित्रविशेषः तस्याः शब्दान् ‘गोहियसदाणि वा' गोधिकाशब्दान् वा-गोधिकाऽऽकृतिको वाद्यविशेषस्तच्छब्दान् ‘मकरियसद्दाणि वा' मकरिकाशब्दान् वा-मकराकृतिको वाद्यविशेषस्तस्य शब्दान् 'कच्छभीसद्दाणि वा' कच्छपीशब्दान् वा कच्छपाकृतिवाद्यविशेषशब्दान् वा 'महियसद्दाणि वा' महतिका शब्दान् वा 'सणालियासदाणि वा' सनालिकाशब्दान् वा, अत्र तालादिकं सर्वमपि वाद्यविशेषलक्षणमेव, तेषां विशेषतो नामानि लोकतो देशतश्च ज्ञातव्यानि, अत्र तु सामान्यरूपेणैव अर्थाः प्रतिपादिताः । 'अन्नयराणि वा' अन्यतरान् वा 'तहप्पगाराणि वा' तथाप्रकारान् अन्यानपि तत्सदृशान् 'घणाणि सदाणि' घनान्-जनजातीयवादित्रसमुत्थान् शब्दान् 'कण्णसोयपडियाए' कर्णश्रोतःप्रतिज्ञया-कर्णाभ्यां श्रोतुमिच्छया 'अभिसंधारेइ' अभिसंधारयति मनसा श्रवणार्थं निश्चयं करोति तथा 'अभिसंधारेतं वा साइज्जई' अभिसंधारयन्तं कर्णसुखावहान् तालादिशब्दान् श्रोतुं मनसा निश्चयं कुर्वन्तं श्रमणान्तरं यः स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० २५४ ॥ सूत्रम्--जे भिक्खू वीणासदाणि वा विवंचीसदाणि वा तुण्णसदाणि बव्वीसदाणि वा वीणाइयसदाणि वा तुंबवीणासदाणि वा संकोडयसदाणि वा रुरुयसदाणि वा ढंकुणसदाणि वा अन्नयराणि वा तहप्पगाराणि तताणि सहाणि कण्णसोयवडियाए अभिसंधारेइ अभिसंधारेतं वा साइज्जइ॥२५५ छाया- यो भिक्षुः वोणाशब्दात् वा विपञ्चीशब्दान् वा तूणशब्दान् वा वव्वीसशब्दान् वा वीणातिकशब्दान् वा तुम्बवीणाशब्दान् वा संकोटकशब्दान् वा रुरुकशब्दान् वा શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy