________________
चूर्णिभाष्यावचूरिः उ. १५ स् १३-६८
अन्यतीथिका दितः पादामार्जनादिनिषेधः ३५१
चूर्णी -- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'सचित्तपइद्वियं' सचित्तप्रतिष्ठितम्, इतिविशेषणविशिष्टमाम्रादिकं विदशति - चूषति शेषं सुगमम् ।
अत्राह भाष्यकारः---
सचित्तंवं तहा पेसिं, तं सचित्तपट्ठियं । जो भुंजेज्ज विडंसेज्ज, आणाभंगाइ पावइ ॥ १ ॥
छाया - सचिताम्रं तथा पेशीं, तत्सचित्तप्रतिष्ठितम् । यो भुङ्क्ते विदशति, आज्ञाभङ्गादि प्राप्नोति ॥ १ ॥
अवचूरि:- : - यः कश्चिद् भिक्षुः - श्रमणः उपलक्षणात् श्रमणी वा स सचित्ताम्रम् - सचित्ताम्रफलम् तथा पेशीम् आम्रचीरिकाम् उपलक्षणाद्-- आम्रभितं आम्रसालकम् आम्रचोयगं वा, आम्रफलस्य कोsपि प्रकारो भवेत् तं सचित्तं यदि भुङ्क्ते विदशति वा तदा स श्रमणः आज्ञाभङ्गादिदोषान् प्राप्नोतीति ॥ सू० १२॥
सूत्रम् -- जे भिक्खू अण्णउत्थिषण वा गारत्थिएण वा अप्पणापाए आमज्जावेज्ज वा पमज्जावेज्ज वा आमज्जावेंतं वा पमज्जावेंतं वा साइज्जइ ॥ सू० १३ ॥
छाया -- यो भिक्षुरन्ययूथिकेन वा गार्हस्थिकेन वा आत्मनः पादौ आमार्जयेद् वा प्रमार्जयेद् वा आमार्जयन्तं वा प्रमार्जयन्तं वा स्वदते ॥ सू० १३ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः[:- श्रमणः श्रमणी वा 'अण्णउत्थिण वा' अन्ययूथिकेन - अन्यमतानुयायिना तापसादिनेत्यर्थः ' गारत्थिरण वा ' गार्हस्थिकेन गृहस्थेन श्रावकेण तद्भिन्नेन वा 'अप्पणो पाए' आत्मनः स्वस्य पादौ चरणौ 'आमज्जा वेज्ज वा' आमार्जयेद्वा- एकवारं वा मार्जनं कारयेद्वा 'पमज्जा वेज्ज वा' प्रमार्जयेद्वा अनेकवारं वा प्रमार्जनं कारयेद्वा, तथा 'आमज्जावेंतं वा' आमार्जयन्तं वा - एकवारं चरणमाजैनं कारयन्तं वा 'मज्जावेंतं वा' प्रमार्जयन्तं वा - प्रतिदिनमनेकवारं वा पादयोः प्रमार्जनं कारयन्तं श्रमणान्तरम् ' साइज्जइ' स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति ॥ सू १३ ॥
सूत्रम् -- एवं तइयउद्दस गमओ णेयव्वो जाव गामाणुगामं दृइज्जमाणे अण्णउत्थि वा गारत्थिएण वा अप्पणो सीसदुवास्यिं करावेइ करावेंतं वा साइज्जइ ॥ सू० १४-६८ ॥
શ્રી નિશીથ સૂત્ર