SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ ३२६ निशीथसूत्रे चारित्रविराधकदोषेषु संसक्तः आसक्तः चारित्रविराधकदोषयुक्त इत्यर्थः, यथा गवादिमृतशरीरं कथितं सदनेकप्रकारककृमिजालाकीर्ण भवति तथैव संसक्तोऽप्यनेकदोषाकीर्णो भवति, स बहुरूपिपुरुषवत् अनेकरूपधारी भवति, नटवत् अनेकरूपाणि करोति, वस्त्रवत् यथा हरिद्वारागरक्त प्रक्षाल्य गेरुकादिरागरक्तं करोति, एवं संसक्तोऽपि नानाप्रकारको भवति, यथा पार्श्वस्थेषु तिष्ठन् पार्श्वस्थो भवति, कुशीलेष तिष्ठन् कुशीलो भवति, एवमवसन्नादिविषयेऽपि विज्ञेयम् । एवमन्येष्वपि यथाविधेषु तिष्ठन् यथाविध एव जायते । एतादृशं संसक्तं वन्दते ।। सू० ५६॥ प्रशंसति ।। सू० ५७॥ 'अहाच्छंदं' यथाच्छन्दम् , यथाच्छन्दः यथा यत्प्रकारकः छन्दः अभिप्राय उत्पद्यते तदनुसार वर्तते यः स यथाच्छन्दः यथेच्छकार्यकारी आगमनिरपेक्षचारीत्यर्थः, तं वन्दते । सू० ५८॥ प्रशंसति ॥ सू० ५९।। 'नितियं' नैत्यिकम् , नैत्यिकः-नित्यपिण्डभोजी यः प्रतिदिनमेकस्मादेव गृहात् नियमत आहारादिकं गृह्णाति सः तादृशं वन्दते ॥ सू० ६०॥ प्रशंसति ।। सू०६१॥ काहियं' काथिकम्, काथिकः कथाकारकः, योऽशनाद्यर्थ यशःकीर्तिप्राप्त्यर्थ च धर्मादिकथां कथयति यः सः, तं वन्दते ॥ सू० ६२॥ प्रशंसति ।। सू० ६३॥ 'पासणियं' प्राश्निकम् , प्राश्निकः यः सावधप्रश्नं करोति, सावद्यमपि प्रश्नस्योत्तरं ददाति भूतभविष्यत्कालिकं शुभाशुभं प्रश्नस्योत्तरं ददाति सः, तं वन्दते ॥ सू० ६४॥ प्रशंसति ।। सू०६५॥ 'मामगं' मामकम् , मामकः-यः उपधिवस्त्रपात्रवसत्यादौ मम ममेति ममकारकरणात् मामकः प्रोच्यते, एते उपध्यादयो मम सन्ति न कोऽप्यन्यः एषामुपभोगं करोतु, इत्येवं कथनशीलो मामकः, यथा-मदीयो देशः सुन्दरः, वृक्षवापीसरस्तडागादिशोभितः नैतादृशोऽपरो देशः, सुविहारो मम देशः, यत्र सुलभवसतिभक्तोपकरणादयो बहवो गुणाः सन्ति, यत्र शालिगाधूमादीनि अनेकप्रकारकाणि वस्तूनि निष्पद्यन्ते, यत्र गोमहिष्यादीनां प्रभूतत्वेन दुग्धदधिनवनीतघृतादीनि प्रचुराणि भवन्ति, यत्र वस्त्रा. लङ्कारादिभिरुपशोभितः स्त्रीपुरुषादिवर्तते, तत्र साधुसाध्वीनामुपद्रवकारको जनो न कोऽपि वर्तते, एतादृशो देशो मम, इत्यादिरूपेण सर्वत्र ममकारको मामकः प्रोच्यते तं वन्दते ॥ सू०६६॥ प्रशंसति ।। सू० ६७। 'संपसारियं' साम्प्रसारिकम् , साम्प्रसारिकः-गृहस्थानां कार्येषु गुरुलाघवं संप्रसारयितुं विस्तारयितुं विस्तरेण तद्विस्तरेण तद्विषये संमतिं दातुं शीलं यस्य स संप्रसारी, स एव साम्प्रसारिकः गृहस्थानां व्यापारादिषु कौटुम्बिकोचितानुचितकार्येषु मार्गप्रदर्शकः, तं यो वन्दते ॥ सू०६८॥ प्रशंसति प्रशंसन्तं वाऽन्यं स्वदते अनुमोदते सः आज्ञाभङ्गादिदोषान् प्राप्नोतीति । अत्राह भाष्यकार:भाष्यम्--- पासत्थं च समारब्भ, संपसारियमंतगं । वंदइ पसंसई चेव, आणाभंगाइ पावई ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy