________________
चूर्णिभाष्यावचूरिः उ० १३ सू० ४९-५१ आरोग्यार्थप्रतीकारपार्श्वस्थबन्दनप्रशंसननि० ३२३
चूर्णी-'जे भिक्खू' इत्यादि । 'जे 'भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'विरेयणं करेइ' विरेचनं करोति, तत्र विरेचनं नाम अधः-स्रावणम् , संगृहीतमलस्य अपानद्वारा बहिनिस्सारणं तादृशं विरेचनं करोति तथा 'करेंतं वा साइज्जइ' विरेचनं कुर्वन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति ॥ सू० ४७॥
सूत्रम्-जे भिक्खू वमणविरेयणं करेइ करेंतं वा साइज्जइ ॥सू० ४८॥
छाया- यो भिक्षुर्वमनविरेचनं करोति कुर्वन्तं वा स्वदते ॥ सू० ४८ ॥
चूर्णी-- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'वमणविरेयणं करेइ' वमनविरचनं-समकालं वमनं विरेचनं च करोति तथा 'करेंतं वा साइज्जइ' वमनं च विरेचनं च कुर्वन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ४८॥
सूत्रम्-जे भिक्खू आरोग्गपडिकम्मं करेइ करेंतं वा साइज्जइ ॥ सू ४९॥
छाया - यो भिक्षुरारोग्यप्रतिकर्म करोति कुर्वन्तं वा स्वदते ॥ सू० ४९ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'आरोग्गपडिकम्म' आरोग्यप्रतिकर्म करोति, तत्रारोग्यं नैरुज्यं तस्मिन् सत्यपि प्रतिकर्म चिकित्सा करोति अनागतरोगस्य प्रतिकर्म करोति अर्थात् यो हि रोगरहितशरीरोपि अनागतकालेऽपि मम शरीरे कोपि रोगः शरीरविनाशको मा भूयात्, इति कृत्वा बलादिवृद्धयर्थ भाविरोगशमनार्थ वा औषधादीनां सेवनलक्षणं प्रतिकर्म करोतीति तथा 'करेंतं वा साइज्जई' आरोग्यप्रतिकर्म कुर्वन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति ।। सू० ४९॥
अत्राह भाष्यकारःभाष्यम्--अरोगत्ते सरीरस्स, बलबुट्टिनिमित्तगं ।
सेवए ओसहं जो उ, आणाभंगाइ पावइ ॥ छाया- अरोगत्वे शरीरस्य, बलवृद्धिनिमित्तकम् ।
सेवते औषधं यस्तु आझाभङ्गादि प्राप्नोति ॥ अवचूरिः--यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा नीरोगशरीरोपि बलादिवृद्धयर्थम् उपलक्षणात् आगामिकाले मम शरीरे रोगो मा भवतु, इति बुद्धया च औषधादिकं सेवते,
શ્રી નિશીથ સૂત્ર