________________
निशीथसूत्रे
३२२
देहे' आत्मानं मुखादिकं पश्यति प्रेक्षते तथा 'देहंतं वा साज्जइ' पश्यन्तं वा जलपूरितमात्र के स्वात्मानं पश्यन्तं श्रमणान्तरं स्वदते अनुमोदते स प्रायश्वित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति ॥० ३५ | एवम् ' अद्दाए अप्पाणं देहेइ' आदर्शे-दर्पणे आत्मानं पश्यति ॥ सू० ३६ || 'असीए अप्पाणं देहेइ' असौ खड्गे आत्मानं पश्यति ॥ सू० ३७ ॥ 'मणीए अप्पाणं देहेइ' मणौ आत्मानं पश्यति ॥ सू० ३८ || 'कुंडपाणीए अप्पाणं देहेइ' कुण्डपानीये हदादिजले आत्मानं पश्यति || सू० ३९|| 'फाणिए अप्पाणं देहेइ' फाणिते इक्षुविकारभूते तरले गुडे आत्मानं पश्यति ।। सू०४०|| ' तेल्ले अप्पाणं देहेइ' तैले आत्मानं पश्यति ॥ सू० ४१ ॥ 'महुए अप्पाणं देहे ' मधुके - मधौ 'सहद' इति प्रसिद्धे द्रवभूते तरले मधौ आत्मानं पश्यति ॥ सू० ४२ || 'सप्पिए अप्पाणं देहेइ' सर्पिषि - घृते आत्मानं पश्यति ॥ सू० ४३ ॥ 'मज्जए अप्पाणं देहे ' मद्य-मधे सुरायामात्मानं पश्यति ॥ सू० ४४ || 'वसाए अप्पाणं देहे ' वसायां शारीरिकधातुविशेषे 'चर्बी' इति प्रसिद्धायां आत्मानं पश्यति पश्यन्तं वा अनुमोदते स दोषभागी भवति ॥ सू० ४५ ॥
अत्राह भाष्यकारः
भाष्यम् - मत्तयाइवसांतेसु, एरिसन्नयरेसु वा ।
अप्पाणं देer भिक्खू, आणाभंगाइ पावई ||
छाया - मात्रकादिवसांतेषु ईदृशान्यतरेषु वा । आत्मानं पश्यति भिक्षुः, आज्ञाभङ्गादि प्राप्नोति ॥
----
अवचूरिः - पञ्चत्रिंशत्तमसूत्रादारभ्य पञ्चचत्वारिंशत्तमपर्यन्तसूत्रेषु मात्रकादीनि वस्तूनि कथि - तानि तेषु सर्वेषु तथा तादृशेषु अन्येष्वपि वस्तुषु यो भिक्षुरात्मानं शरं रमुखादिकं पश्यति 'जत्तियमेत्ता उ आहिया ठाणा' इति वचनात् यावन्मात्राणि आख्यातानि स्थानानि - मुखादिदर्शनयोग्यानि वस्तूनि तेषु सर्वेषु य आत्मानं पश्यति स आज्ञाभङ्गादिदोषान् प्राप्नोति ॥
सूत्रम् — जे भिक्खू वमणं करेइ करेंतं वा साइज्जइ ||सू० ४६ ॥
छाया -यो भिक्षर्वमनं करोति कुर्वन्तं वा स्वदते ॥ सू० ४६ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कचित् भिक्षुः श्रमणः श्रमणी वा 'वमणं करेइ' वमनं करोति, तत्र वमनं सुखद्वारा अशिताशनादेर्बहिर्निष्कासनमित्यर्थः ' करें वा साइज्जइ, वमनं कुर्वन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ४६ ॥
सूत्रम् — जे भिक्खू विरेयणं करेइ करेंतं वा साइज्जइ ॥ सू० ४७॥ छाया -यो भिक्षु विरेचनं करोति कुर्वन्तं वा स्वदते ॥० ४७ ||
શ્રી નિશીથ સૂત્ર